तासां ततोऽधिकं प्रेम क्रीडासु सर्वकर्मसु
अथ नारायणः सोऽयं बलेन शिशुभिः सह
इत्येवं कथितं सर्वं हरेर्माहात्म्यमुत्तमम्
नारद उवाच मुनीन्द्रयोगसिद्धानां दुर्लभा गतिरीश्वरी
इमाः का वा पुण्यवत्यः पुरा तस्थुर्महीतलम्
सप्तर्षीणां रमण्यश्च रूपेणाप्रतिमाः पराः
नवीनयौवनाः सर्वाः पीनश्रोणि पयोधराः
तप्तकाञ्चनवर्णाभाः स्मेराननसरोरुहाः
दृष्ट्वा तासां स्तनश्रोणिमुखानि सुन्दराणि च 4.18.
अग्निस्थानस्थितानां च शिखया सुरतोन्मुखः
पतिव्रता न जानन्ति पतिपादाब्जमानसाः
वह्नेश्च मानसं ज्ञात्वा भगवानङ्गिरा मुनिः
वह्निः सचेतनो भूत्वा तुष्टाव मुनिपुंगवम्
क्रुद्धो मुनिवरः स्पृष्टाः कामिन्यश्च शशाप ह
भारते ब्राह्मणानां च गृहे लभत जन्म वै
श्रुत्वा वाक्यं मुनेस्ताश्च रुरुदुः प्रेमविह्वलाः
मुनिपत्न्य ऊचुः अजानन्त्यः परस्पृष्टा न च नस्त्यक्तुमर्हसि
भक्तानां किंकरीणां च न दण्डं कर्तुमर्हसि
खड्गच्छेदाद्वज्रपातात्सर्वप्रहरणान्मुने 4.18.
ब्रह्मिष्ठानां गुणवतां परान्कान्तान्महामुनीन्
यास्यामो यदि विप्रेश कदाऽत्रागमनं वद
अहल्यया पुनः प्राप्तः स्वामीन्द्रस्य प्रधर्षणात्
विचारं कुरु धर्मिष्ठ वेदवेदाङ्गपारग
अन्येषां च भयात्कान्ता व्रजन्ति शरणं पतिम्
अभयं देहि धर्मिष्ठ भययुक्ताभ्य एव च
दुर्बलः सबलो वापि स्ववस्तूनामपीश्वरः
वेदवेदाङ्गपारज्ञो ज्ञानिनां योगिनां वरः
सर्वे बभूवुः शोकार्ता विरहोद्विग्नमानसाः ।। 4.18.
कृत्वा विलापं सुचिरं सर्ववेदविदां वरः
अङ्गिरा उवाच स्वकर्मभोगिनां भोगमाकर्माच्च श्रुतौ श्रुतम्