पश्यामोऽनुक्षणं वक्त्रसरोजं तव केशव
द्विजपत्नीवचः श्रुत्वा श्रीकृष्णः करुणानिधिः
प्रदत्तं विप्रपत्नीभिर्मिष्टमन्नं सुधोपमम्
एतस्मिन्नन्तरे तत्र शातकुम्भं रथं परम्
रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम्
श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम्
शतचक्रसमायुक्तं मनोयायि मनोहरम्
पीतवस्त्रपरीधानै रत्नालंकारभूषितैः
द्विभुजैर्मुरलीहस्तैर्गोपवेषधरैर्वरैः 4.18.
अवरुह्य रथात्तूर्णं ते प्रणम्य हरेः पदम्
विप्रभार्या हरिं नत्वा जग्मुर्गोलोकमीप्सितम्
हरिश्छायां विनिर्माय तासां च विष्णुमायया
विप्राश्च भार्या उद्दिश्य परमोद्विग्नमानसाः
दृष्ट्वोचुर्ब्राह्मणाः सर्वे तास्ते च विनयान्विताः
ब्राह्मणा ऊचुः अस्माकं जीवनं व्यर्थं वेदपाठोऽप्यनर्थकः
वेदे पुराणे सर्वत्र विद्वद्भिः परिकीर्तिताः
तपो जपो व्रतं ज्ञानं वेदा ध्ययनमर्चनम्
श्रीकृष्णः सेवितो येन किं तस्य तपसां फलैः
श्रीकृष्णो हृदये यस्य तस्य किं कर्मभिः कृतैः ।।4.18.
इत्येवमुक्त्वा विप्राश्च गृहीत्वा कामिनीवराः
तासां ततोऽधिकं प्रेम क्रीडासु सर्वकर्मसु
अथ नारायणः सोऽयं बलेन शिशुभिः सह
इत्येवं कथितं सर्वं हरेर्माहात्म्यमुत्तमम्
नारद उवाच मुनीन्द्रयोगसिद्धानां दुर्लभा गतिरीश्वरी
इमाः का वा पुण्यवत्यः पुरा तस्थुर्महीतलम्
सप्तर्षीणां रमण्यश्च रूपेणाप्रतिमाः पराः
नवीनयौवनाः सर्वाः पीनश्रोणि पयोधराः
तप्तकाञ्चनवर्णाभाः स्मेराननसरोरुहाः
दृष्ट्वा तासां स्तनश्रोणिमुखानि सुन्दराणि च 4.18.
अग्निस्थानस्थितानां च शिखया सुरतोन्मुखः