महदादिसृष्टिसूत्रं पञ्चतन्मात्रमेव च
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा
अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे
पार्वती कमला राधा सावित्री वेदसूरपि
वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर
इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत्
श्रीकृष्णस्य वचः श्रुत्वा विप्रपन्त्यो मुदाऽन्विताः 4.18.
द्विजपत्न्य ऊचुः देहि स्वं दास्यमस्मभ्यं दृढां भक्तिं सुदुर्लभाम्
पश्यामोऽनुक्षणं वक्त्रसरोजं तव केशव
द्विजपत्नीवचः श्रुत्वा श्रीकृष्णः करुणानिधिः
प्रदत्तं विप्रपत्नीभिर्मिष्टमन्नं सुधोपमम्
एतस्मिन्नन्तरे तत्र शातकुम्भं रथं परम्
रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम्
श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम्
शतचक्रसमायुक्तं मनोयायि मनोहरम्
पीतवस्त्रपरीधानै रत्नालंकारभूषितैः
द्विभुजैर्मुरलीहस्तैर्गोपवेषधरैर्वरैः 4.18.
अवरुह्य रथात्तूर्णं ते प्रणम्य हरेः पदम्
विप्रभार्या हरिं नत्वा जग्मुर्गोलोकमीप्सितम्
हरिश्छायां विनिर्माय तासां च विष्णुमायया
विप्राश्च भार्या उद्दिश्य परमोद्विग्नमानसाः
दृष्ट्वोचुर्ब्राह्मणाः सर्वे तास्ते च विनयान्विताः
ब्राह्मणा ऊचुः अस्माकं जीवनं व्यर्थं वेदपाठोऽप्यनर्थकः
वेदे पुराणे सर्वत्र विद्वद्भिः परिकीर्तिताः
तपो जपो व्रतं ज्ञानं वेदा ध्ययनमर्चनम्
श्रीकृष्णः सेवितो येन किं तस्य तपसां फलैः
श्रीकृष्णो हृदये यस्य तस्य किं कर्मभिः कृतैः ।।4.18.
इत्येवमुक्त्वा विप्राश्च गृहीत्वा कामिनीवराः