ब्रह्मविष्णुशिवाद्याश्च सुरलोकाश्चराचराः 1.17.
विश्वानां च सुराणां च कः संख्यां कर्तुमीश्वरः
ऊर्ध्वं च सर्वब्रह्माण्डाद्वैकुण्ठं सत्यमीप्सितम्
चतुर्भुजश्च वैकुण्ठे लक्ष्मीकान्तः सनातनः
गोलोके द्विभुजः कृष्णो राधाकान्तः सनातनः
परिपूर्णतमं ब्रह्म स चात्मा सर्वदेहिनाम्
तज्ज्योतिर्मण्डलाकारं सूर्य्यकोटिसमप्रभम्
नवीननीरदश्यामं द्विभुजं पीतवाससम्
किशोरनयनं शश्वच्छान्तं सस्मितमी श्वरम्
यस्य वंशोद्भवोऽहं च यस्य शिष्यश्च बालकः ।। 1.17.
शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर
इत्युक्त्वा बालकस्तत्र विप्ररूपी जनार्दनः
सौतिरुवाच प्रययुर्मालतीमूलं ब्रह्मेशानपुरोगमाः
ब्रह्मा कमण्डलुजलं ददौ गात्रे शवस्य च
ज्ञानदानं ददौ तस्मै ज्ञानानन्दः शिवः स्वयम्
वह्निदर्शनमात्रेण बभूव जठरानलः
तस्य वायोरधिष्ठानाज्जगत्प्राणस्वरूपिणः
सर्व्वाधिष्ठानमात्रेण दृष्टिशक्तिर्बभूव ह
शवस्तथाऽपि नोत्तस्थौ यथा शेते जडस्तथा
ब्रह्मणो वचनात्साध्वी तुष्टाव परमेश्वरम्
मालावत्युवाच विना येन शवाः सर्वे प्राणिनो जगतीतले
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु 1.18.
येन सृष्टा च प्रकृतिः सर्वाधारो परात्परा
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा
साकारं च निराकारं परं स्वेच्छामयं विभुम्
तपःफलं तपोबीजं तपसां च फलप्रदम्
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम्
स्वयंतेजःस्वरूपं च भक्तानुग्रहविग्रहम्
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम्