विप्रा आंगिरसाः सर्वे स्वाश्रमे श्रीवनान्तिके 4.18.
निःस्पृहा वैष्णवाः सर्वे मां यजन्ति मुमुक्षवः। मायया मां न जानन्ति मायामानुषरूपिणम्
न चेद्ददति युष्मभ्यमन्नं विप्राः क्रतून्मुखाः
श्रीकृष्णवचनं श्रुत्वा ययुर्बालकपुंगवाः
इत्यूचुर्बालकाः शीघ्रमन्नं दत्त द्विजोत्तमाः
ते ययू रन्धनागारं ब्राह्मण्यो यत्र पाचिकाः
नत्वोचुर्बालकाः सर्वे विप्रभार्याः पतिव्रताः
बालानां वचनं श्रुत्वा दृष्ट्वा तांश्च मनोहरान्
विप्रपत्न्य ऊचुः दास्यामोऽन्नं बहुविधं व्यञ्जनैः सहितं वरम्
बाला ऊचुः दत्तान्नं मातरोऽस्मभ्यं क्षिप्रं यामस्तदन्तिकम् ।। 4.18.
इतो विदूरे भाण्डीरे वनाभ्यन्तरमेव च
विश्रान्तौ क्षुधितौ तौ च याचेतेऽन्नं च मातरः
गोपानां वचनं श्रुत्वा हृष्टानन्दाश्रुलोचनाः
नानाव्यञ्जनसंयुक्तं शाल्यन्नं सुमनोहरम्
रौप्ये कांस्ये राजते च पात्रे कृत्वा मुदाऽन्विताः
नानामनोरथं कृत्वा मनसा गमनोत्सुकाः
श्रीकृष्णं ददृशुर्गत्वा रामं च सह बालकम्
श्यामं किशोरवयसं पीतकौशेयवाससम्
शरत्पार्वणचन्द्रास्यं रत्नालंकारभूषितम्
रत्नकेयूरवलयरत्ननूपुरभूषितम् 4.18.
मालतीमालया कण्ठवक्षःस्थलविराजितम्
सुनखं सुकपोलं च पक्व बिम्बाधरं वरम्
शिखिपिच्छसमायुक्तं बद्धचूडं परात्परम्
ध्यानासाध्यं योगिनां च भक्तानुग्रहकातरम्
दृष्ट्वैवमीश्वरं भक्त्या प्रणेमुर्द्विजयोषितः
विप्रपत्न्य ऊचुः निर्गुणश्च निराकारः साकारः सगुणः स्वयम्
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः
सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः
यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः 4.18.