काश्चिद्गोपान्केचिदूचुः कुत एतदभूदिदम्
बुबुधे मनसा नन्दो गर्गवाक्यमनुस्मरन्
ब्रह्मादितृणपर्यन्तं यस्य भ्रूभङ्गलीलया
विवरेष्वेव यल्लोम्नां ब्रह्माण्डान्यखिलानि च
ब्रह्मानन्तेशधर्माश्च ध्यायन्ते यत्पदाम्बुजम्
भ्रामंभ्रामं तन्नगरं दर्शंदर्शं गृहंगृहम्
कृत्वा शुभक्षणं नन्दो वृषभानश्च कौतुकी
सर्वे वृन्दावनस्थाश्च प्रसन्नवदनेक्षणाः 4.17.
सर्वे मुमुदिरे गोपाः स्वेस्वे स्थाने मनोहरे
श्रीकृष्णो बलदेवश्च शिशुभिः सह कौतुकात्
इत्येवं कथितं सर्वं निर्माणं नगरस्य च
अहो किमद्भुतं सूत रहस्यं सुमनोहरम्
सूत उवाच पप्रच्छ कृष्णचरितमपरं सुमनोहरम्
नारद उवाच ज्ञानसिंधो निगद मां शिष्यं च शरणागतम्
नारदस्य वचः श्रुत्वा मुदा नारायणः स्वयम्
श्रीनारायण उवाच जगाम श्रीमधुवनं यमुनातीरनीरजम्
विचेरुर्गोसहस्रैश्च चिक्रीडुर्बालकास्तदा
तमूचुर्गोपशिशवः श्रीकृष्णं परया मुदा
शिशूनां वचनं श्रुत्वा तानुवाच दयानिधिः
श्रीकृष्ण उवाच अन्नं याचत ताञ्छीघ्रं ब्राह्मणांश्च क्रतून्मुखान्
विप्रा आंगिरसाः सर्वे स्वाश्रमे श्रीवनान्तिके 4.18.
निःस्पृहा वैष्णवाः सर्वे मां यजन्ति मुमुक्षवः। मायया मां न जानन्ति मायामानुषरूपिणम्
न चेद्ददति युष्मभ्यमन्नं विप्राः क्रतून्मुखाः
श्रीकृष्णवचनं श्रुत्वा ययुर्बालकपुंगवाः
इत्यूचुर्बालकाः शीघ्रमन्नं दत्त द्विजोत्तमाः
ते ययू रन्धनागारं ब्राह्मण्यो यत्र पाचिकाः
नत्वोचुर्बालकाः सर्वे विप्रभार्याः पतिव्रताः
बालानां वचनं श्रुत्वा दृष्ट्वा तांश्च मनोहरान्
विप्रपत्न्य ऊचुः दास्यामोऽन्नं बहुविधं व्यञ्जनैः सहितं वरम्
बाला ऊचुः दत्तान्नं मातरोऽस्मभ्यं क्षिप्रं यामस्तदन्तिकम् ।। 4.18.