संघः सखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः
वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै
नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र संततम्
चन्द्रतुल्या कान्तिरस्ति सदा यस्या दिवानिशम्
शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम्
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम्
ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे
पुष्करे च महातीर्थे पुण्याहे देवसंसदि 4.17.
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने
यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः
अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत्
व्रतदानोपवासैश्च सर्वैर्नियमपूर्वकैः
सर्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः
शरणागतरक्षायामज्ञानां ज्ञानदानतः
तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम्
नारद उवाच कवचं चापि देव्याश्च संसारविजयं प्रभो
कृतं स्तोत्रं सुयत्नेन प्राप्तं तदपि दुर्लभम्
अधुना श्रोतुमिच्छामि यद्रहस्यं च तद्वद 4.17.
श्रीनारायण उवाच अरुणोदयवेलायां जनाः सर्वे जजागरुः
उत्थाय दृष्ट्वा नगरं सर्वेभ्योऽपि विलक्षणम्
काश्चिद्गोपान्केचिदूचुः कुत एतदभूदिदम्
बुबुधे मनसा नन्दो गर्गवाक्यमनुस्मरन्
ब्रह्मादितृणपर्यन्तं यस्य भ्रूभङ्गलीलया
विवरेष्वेव यल्लोम्नां ब्रह्माण्डान्यखिलानि च
ब्रह्मानन्तेशधर्माश्च ध्यायन्ते यत्पदाम्बुजम्
भ्रामंभ्रामं तन्नगरं दर्शंदर्शं गृहंगृहम्
कृत्वा शुभक्षणं नन्दो वृषभानश्च कौतुकी
सर्वे वृन्दावनस्थाश्च प्रसन्नवदनेक्षणाः 4.17.
सर्वे मुमुदिरे गोपाः स्वेस्वे स्थाने मनोहरे
श्रीकृष्णो बलदेवश्च शिशुभिः सह कौतुकात्