राधेत्येवं च संसिद्धा राकारो दानवाचकः
रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता
सर्वासां रसिकानां च देवीनामीश्वरी परा
प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः
कृष्णस्यातिप्रिया कान्ता कृष्णो वाऽस्याः प्रियः सदा
कृष्णरूपं सन्निधातुं या शक्ता चावलीलया
वामाङ्गार्धेन कृष्णस्य या संभूता परा सती
परमानन्दराशिश्च स्वयं मूर्तिमती सती 4.17.
कृषिर्मोक्षार्थवचनो न एवोत्कृष्टवाचकः
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता
संघः सखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः
वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै
नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र संततम्
चन्द्रतुल्या कान्तिरस्ति सदा यस्या दिवानिशम्
शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम्
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम्
ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे
पुष्करे च महातीर्थे पुण्याहे देवसंसदि 4.17.
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने
यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः
अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत्
व्रतदानोपवासैश्च सर्वैर्नियमपूर्वकैः
सर्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः
शरणागतरक्षायामज्ञानां ज्ञानदानतः
तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम्
नारद उवाच कवचं चापि देव्याश्च संसारविजयं प्रभो
कृतं स्तोत्रं सुयत्नेन प्राप्तं तदपि दुर्लभम्
अधुना श्रोतुमिच्छामि यद्रहस्यं च तद्वद 4.17.
श्रीनारायण उवाच अरुणोदयवेलायां जनाः सर्वे जजागरुः
उत्थाय दृष्ट्वा नगरं सर्वेभ्योऽपि विलक्षणम्