पुत्रानिव प्रजाः सर्वाः पालयामास धार्मिकः
कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम्
केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः
जैगीषव्योपदेशेन जगाम तपसे वनम्
शश्वत्सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने
केदारं नाम तीर्थं च तन्नाम्ना च बभूव ह
कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी
दत्तो दुर्वाससा तस्यै हरेर्मन्त्रः सुदुर्लभः
षष्टिवर्षसहस्राणि तपस्तेपे सुनिर्जने 4.17.
प्रसन्नवदनः श्रीमान्वरं वृण्वित्युवाच सः
मूर्च्छां संप्राप सा सद्यः कामबाणप्रपीडिता
ओमित्युक्त्वा च रहसि चिरं रेमे तया सह
राधा समा सा सौभाग्याद्गोपीश्रेष्ठा बभूव ह
वृन्दयाऽत्र कृता क्रीडा तेन वा मुनिपुंगव
येन वृन्दावनं नाम निबोध कथयामि ते
तुलसीवेदवत्यौ च विरक्ते भवकर्मणि
दैवाद्दुर्वाससः शापात्प्राप्य शङ्खासुरं प्रति
सा चैव हरिशापेन वृक्षरूपा सुरेश्वरी 4.17.
तथा तस्थौ च सततं शिलावक्षसि सुंदरी तथाऽपि च प्रसंगेन किंचिदुक्तं मुने पुनः
तस्याश्च तपसः स्थानं तदिदं च तपोधन
अथ वा ते प्रवक्ष्यामि परं हेत्वन्तरं शृणु
राधाषोडशनाम्नां च वृन्दानाम श्रुतौ श्रुतम्
गोलोके प्रीतये तस्याः कृष्णेन निर्मितं पुरा
नारद उवाच तानि मे वद शिष्याय श्रोतुं कौतूहलं मम
श्रुतं नाम्नां सहस्रं च सामवेदे निरूपितम्
अभ्यंतराणि तेषां वा तदन्यान्येव मे विभो
नामानि तेषां व्युत्पत्तिं सर्वेषां दुर्लभानि च
श्रीनारायण उवाच कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ।। 4.17.
कृष्णवामांगसंभूता परमानन्दरूपिणी
चन्द्रावती चन्द्रकान्ता शतचन्द्रनिभानना