मालतीचम्पकानां च पुष्पराजिभिरन्वितम्
वज्रसारेण खचितैर्मुक्ताजालविलम्बिभिः
रत्नसिंहासनैर्युक्तं रत्नचित्रेण चित्रितैः
शीतवासिततोयेन संयुक्तं भोगवस्तुभिः
यानि येषां मन्दिराणि तन्नामानि लिलेख सः
निद्रेशं निद्रितं नत्वा प्रययौ स्वालयं मुने
नेहाश्चर्यं च नगरं बभूवेशेच्छया भुवि सुखदं पातकहरं किं भूयः श्रोतुमिच्छसि
कथं वृन्दावनं नाम काननस्यास्य भारते
सूत उवाच प्रहस्योवाच निखिलं तत्त्वमेव पुरातनम्
आसीत्सत्ययुगे ब्रह्मन्सत्यधर्मरतः सदा
पुत्रानिव प्रजाः सर्वाः पालयामास धार्मिकः
कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम्
केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः
जैगीषव्योपदेशेन जगाम तपसे वनम्
शश्वत्सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने
केदारं नाम तीर्थं च तन्नाम्ना च बभूव ह
कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी
दत्तो दुर्वाससा तस्यै हरेर्मन्त्रः सुदुर्लभः
षष्टिवर्षसहस्राणि तपस्तेपे सुनिर्जने 4.17.
प्रसन्नवदनः श्रीमान्वरं वृण्वित्युवाच सः
मूर्च्छां संप्राप सा सद्यः कामबाणप्रपीडिता
ओमित्युक्त्वा च रहसि चिरं रेमे तया सह
राधा समा सा सौभाग्याद्गोपीश्रेष्ठा बभूव ह
वृन्दयाऽत्र कृता क्रीडा तेन वा मुनिपुंगव
येन वृन्दावनं नाम निबोध कथयामि ते
तुलसीवेदवत्यौ च विरक्ते भवकर्मणि
दैवाद्दुर्वाससः शापात्प्राप्य शङ्खासुरं प्रति
सा चैव हरिशापेन वृक्षरूपा सुरेश्वरी 4.17.
तथा तस्थौ च सततं शिलावक्षसि सुंदरी तथाऽपि च प्रसंगेन किंचिदुक्तं मुने पुनः
तस्याश्च तपसः स्थानं तदिदं च तपोधन