राजमार्गाश्च विविधान्स च चारूंश्चकार ह
पारावारे च परितो निबन्धांश्च मनोहरान्
सर्वतो दक्षिणे वामे ज्वलद्भिश्च विराजितान्
सुन्दरं मण्डलाकारं मणिप्राकारसंयुतम्
मणिसारविकारैश्च मण्डपैर्नवकोटिभिः
नानाजातिप्रसूनानां वायुना सुरभीकृतैः
पुष्पोद्यानैः पुष्पितैश्च सरोभिश्च सुशोभितम्
दृष्ट्वा वृन्दावनं रम्यं परितुष्टो बभूव ह
कृत्वा परिमितं बुद्ध्या मनसालोच्य यत्नतः
राधामाधवयोरेव क्रीडार्थं च विनिर्ममे 4.17.
वटमूलसमीपे च सरसः पश्चिमे तटे
पुनस्तयोश्च क्रीडार्थं चकार रत्नमण्डपम्
सद्रत्नसाररचितै राजितं तूलिकाशतैः
कपाटैर्नवभिर्युक्तं नवद्वारैर्मनोहरैः
परितः परितो भित्त्यामूर्ध्वं च परिशोभितम्
सद्रत्नसाररचितकलशोज्ज्वलशेखरम्
सर्वतः पुरतो दीप्तममूल्यरत्न दर्पणैः
शतहस्तप्रमाणं च प्रस्तारं वर्तुलाकृतिम्
वह्निशुद्धांशुकैर्वस्त्रैर्मालाजालविचित्रितैः
चन्दनागुरुकस्तूरीकुङ्कुमैः सुरभीकृतम् 4.17.
मालतीचम्पकानां च पुष्पराजिभिरन्वितम्
वज्रसारेण खचितैर्मुक्ताजालविलम्बिभिः
रत्नसिंहासनैर्युक्तं रत्नचित्रेण चित्रितैः
शीतवासिततोयेन संयुक्तं भोगवस्तुभिः
यानि येषां मन्दिराणि तन्नामानि लिलेख सः
निद्रेशं निद्रितं नत्वा प्रययौ स्वालयं मुने
नेहाश्चर्यं च नगरं बभूवेशेच्छया भुवि सुखदं पातकहरं किं भूयः श्रोतुमिच्छसि
कथं वृन्दावनं नाम काननस्यास्य भारते
सूत उवाच प्रहस्योवाच निखिलं तत्त्वमेव पुरातनम्
आसीत्सत्ययुगे ब्रह्मन्सत्यधर्मरतः सदा