त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती
विदग्धाया विदग्धेन संबन्धो गुणवान्नृप उवाच तं नृपश्रेष्ठो विनयावनतो मुने 4.17.
भनन्दन उवाच
प्रजापतिर्योगकर्ता जन्मदाताऽहमेव च
कर्मानुरूपफलदः सर्वेषां कारणं विधिः
अन्यथा निष्फलं सर्वमनीशस्योद्यमो यथा
पुरा भूतैव को वाऽहं केनान्येन निवार्यते
मिष्टान्नं भोजयामास सादरेण च नारद
गत्वा स कथयामास सुरभानस्य संसदि
संबन्धं योजयामास गर्गद्वारा च सत्वरम्
गजरत्नमश्वरत्नं रत्नानि मणिभूषणम्
रेमे सुनिर्जने रम्ये बुबुधे न दिवानिशम् 4.17.
व्याकुलो वृषभानुश्च क्षणेन च तया विना
जातिस्मरो हरेरंशो वृषभानो मुदाऽन्वितः
सदा सकामा सा प्रौढा स च कामसमो युवा दैवात्सुदाम शापेन श्रीकृष्णस्याज्ञया पुरा
अयोनिसंभवा सा च कृष्णप्राणाधिका सती
स्थानान्तरं विश्वकर्मा जगाम स्वगणैः सह
क्रोशमात्रं स्थलं चारु मनसाऽऽलोच्य तत्त्ववित्
कृत्वाऽनुमानं बुद्ध्या च सर्वतोऽपि विलक्षणम्
दुर्लङ्घ्याभिर्वैरिभिश्च खनिताभिश्च प्रस्तरैः
चारु चम्पकवृक्षैश्च पुष्पितैः सुमनोहरैः 4.17.
आम्रैर्गुडालैः पनसैः खर्जूरैर्नारिकेलकैः
तुङ्गैराम्रातकैर्जम्बुसमूहैश्च फलान्वितैः
सर्वतः शोभिताभिश्च फलैस्तैः पुष्पितैरहो
परिखानां रहः स्थाने चकार मार्गमुत्तमम्
संकेतेन मणिस्तम्भैश्छादितैः स्वल्पपाथसा
परिखोपरिभागे च प्राकारं सुमनोहरम्
प्रस्तरस्य प्रमाणं च पञ्चविंशतिहस्तकम्
बाह्ये द्वाभ्यां च संयुक्तमन्तरे सप्तभिस्तथा
स्वर्णसारविनिर्माणकलशोज्ज्वलशेखरम् 4.17.