नन्ददबन्धुर्वदान्यश्च रूपवान्गुणवान्सुधीः
जातिस्मरा महासाध्वी सुन्दरी कमलाकला 4.17.
स तां संप्राप्य यागान्ते यज्ञकुण्डसमुत्थिताम्
तेजसा प्रज्वलन्तीं च प्रतप्तकनकप्रभाम्
मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता
नामरक्षणकाले च वाग्बभूवाशरीरिणी
इत्येवं वचनं श्रुत्वा तच्चकार महीपतिः
सर्वेभ्यो भोजयामास चकार सुमहोत्सवम्
अतीव सुन्दर श्यामा मुनिमानसमोहिनी
ईषद्धास्यप्रसन्नास्या प्रफुल्लपद्मलोचना
गच्छन्ती राजमार्गेण गजेन्द्रमन्दगामिनी
जितेन्द्रियश्च ज्ञानी च मूर्च्छामाप तथाऽपि च 4.17.
गच्छन्ती कस्य कन्येयमिति होवाच तं जनः
कमलाकलया धन्या संभूता नृपमन्दिरे
व्रज व्रज व्रजश्रेष्ठेत्युक्त्वा लोको जगाम ह
अवरुह्य रथात्तूर्णं विवेश नृपतेः सभाम्
इष्टालापं बहुतरं चकार च परस्परम्
नन्द उवाच संबन्धं कुरु कन्याया विशिष्टेन च साम्प्रतम्
सुरभानुसुतः श्रीमान्वृषभानुर्व्रजाधिपः
स्थिरयौवनयुक्तश्च योगी जातिस्मरो युवा
त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती
विदग्धाया विदग्धेन संबन्धो गुणवान्नृप उवाच तं नृपश्रेष्ठो विनयावनतो मुने 4.17.
भनन्दन उवाच
प्रजापतिर्योगकर्ता जन्मदाताऽहमेव च
कर्मानुरूपफलदः सर्वेषां कारणं विधिः
अन्यथा निष्फलं सर्वमनीशस्योद्यमो यथा
पुरा भूतैव को वाऽहं केनान्येन निवार्यते
मिष्टान्नं भोजयामास सादरेण च नारद
गत्वा स कथयामास सुरभानस्य संसदि
संबन्धं योजयामास गर्गद्वारा च सत्वरम्