मुक्तं कर्तुं त्वया सार्द्धं साम्प्रतं नाहमीश्वरः
निर्वाणतां समाप्नोति भोगी भोगविकृन्तने 4.17.
ततस्तु युवयोर्जन्म भविता भारते सति
जीवन्मुक्तौ तया सार्द्धं गोलोकं च गमिष्यथः
साध्वी वै सत्त्वयुक्ता च मा मां शप्तुं त्वमर्हसि
वाञ्छन्ति हरिदास्यं च दुर्लभं न च निर्वृतिम्
ययतुस्तौ तं प्रणम्य जगाम स्वालयं विधिः
परं पुण्यप्रदं दिव्यं ब्रह्मादीनां च वाञ्छितम्
पद्मावत्याश्च जठरे सुरभानस्य रेतसा
ववृधेऽनुदिनं तत्र व्रजगेहे व्रजाधिपः
नन्ददबन्धुर्वदान्यश्च रूपवान्गुणवान्सुधीः
जातिस्मरा महासाध्वी सुन्दरी कमलाकला 4.17.
स तां संप्राप्य यागान्ते यज्ञकुण्डसमुत्थिताम्
तेजसा प्रज्वलन्तीं च प्रतप्तकनकप्रभाम्
मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता
नामरक्षणकाले च वाग्बभूवाशरीरिणी
इत्येवं वचनं श्रुत्वा तच्चकार महीपतिः
सर्वेभ्यो भोजयामास चकार सुमहोत्सवम्
अतीव सुन्दर श्यामा मुनिमानसमोहिनी
ईषद्धास्यप्रसन्नास्या प्रफुल्लपद्मलोचना
गच्छन्ती राजमार्गेण गजेन्द्रमन्दगामिनी
जितेन्द्रियश्च ज्ञानी च मूर्च्छामाप तथाऽपि च 4.17.
गच्छन्ती कस्य कन्येयमिति होवाच तं जनः
कमलाकलया धन्या संभूता नृपमन्दिरे
व्रज व्रज व्रजश्रेष्ठेत्युक्त्वा लोको जगाम ह
अवरुह्य रथात्तूर्णं विवेश नृपतेः सभाम्
इष्टालापं बहुतरं चकार च परस्परम्
नन्द उवाच संबन्धं कुरु कन्याया विशिष्टेन च साम्प्रतम्
सुरभानुसुतः श्रीमान्वृषभानुर्व्रजाधिपः
स्थिरयौवनयुक्तश्च योगी जातिस्मरो युवा