स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत्
स्नानं च सर्वतीर्थेषु पृथिव्याश्च प्रदक्षिणम् 4.17.
पठनं सर्ववेदानां सर्वाणि च तपांसि च
एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम्
पतंति कालसूत्रे च यावच्चंद्रदिवाकरौ
संततं विपरीतं च कुर्वंति शब्दमुल्बणम्
मुखे तासां ददत्येवमुल्कां च यमकिंकराः
भक्षंति जन्मशतकं रक्तमांसपुरीषकम्
जानामि किंचिदबला त्वं वेदजनको विभुः
सर्वज्ञमेवंभूतं त्वां बोधयामि किमच्युत
मम को रक्षिता ब्रह्मन्धर्मस्य यौवनस्य च
सर्वदा रक्षिता कांतस्तदभावे च तत्सुतः 4.17.
याः स्वतंत्राश्च ता नष्टाः सर्वधर्मबहिष्कृताः
शतजन्मकृतं पुण्यं तासां नश्यति पद्मज ।। पुत्रस्नेहो यथा बाल्ये तथा यूनि च वार्द्धके
पतिव्रतानां कान्ते च सर्वकाले समा स्पृहा
पतिस्नेहस्य साध्वीनां कलां नार्हति षोडशीम्
कान्ते चित्तं सतीनां च स्वप्ने ज्ञाने च सन्ततम्
सुदारुणः स्वामिनश्च दुःखं नातः परं स्त्रियाः
तथा विदग्धा दग्धा स्याद्विदग्धविरहानले
विरहाग्नौ मनो दग्धं वह्नौ शुष्कतृणं यथा
न हि कान्तात्परो देवो न हि कान्तात्परो गुरुः
न हि कान्तात्परः प्राणा न हि कान्तात्परः स्त्रियाः 4.17.
यथैकपुत्रे मातुश्च यथा स्त्रीषु च कामिनाम्
यथा भयेषु भीतानां शास्त्रेषु विदुषां यथा
यथा जारे पुंश्चलीनां साध्वीनां च तथा प्रिये
मरणं जीवनं तासां जीवनं मरणाधिकम् अन्यशोकनिमग्नानां कालेन पानभोजनात्
विपरीतः कान्तशोको वर्द्धते भक्षणादहो
इतरे भोगदेहान्ते साध्वी जन्मनि जन्मनि
त्वां शप्त्वाऽहं त्वयि विभो पश्य दास्यामि स्त्रीवधम् हितं पीयूषसदृशं भयसंविग्नमानसः
ब्रह्मोवाच वत्से मुक्तिं न दास्यामि स्वामिनं च त्वया विना