श्रुत्वा च रोदनं तस्याः कृपया च कृपानिधिः
क्रोडे कृत्वा च तं तूर्णं रुरोद भगवान्विभुः 4.17.
जीवं संचारयामास ब्रह्मज्ञानेन ब्रह्मवित्
प्रणनाम च तं दृष्ट्वा तं च कामसमप्रभम्
स विधेर्वचनं श्रुत्वा वव्रे निर्वाणमीप्सितम्
प्रसन्नवदनः श्रीमान्स्मेराननसरोरुहः
तमुवाच सती त्रस्ता वरं दातुं समुद्यतम् कलावत्युवाच
अतोऽबलाया हे ब्रह्मन्का गतिर्भविता वद
व्रतं पतिव्रतायाश्च पतिरेव श्रुतौ श्रुतम्
सर्वेषां च प्रियतरो न बन्धुः स्वामिनः परः
स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत्
स्नानं च सर्वतीर्थेषु पृथिव्याश्च प्रदक्षिणम् 4.17.
पठनं सर्ववेदानां सर्वाणि च तपांसि च
एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम्
पतंति कालसूत्रे च यावच्चंद्रदिवाकरौ
संततं विपरीतं च कुर्वंति शब्दमुल्बणम्
मुखे तासां ददत्येवमुल्कां च यमकिंकराः
भक्षंति जन्मशतकं रक्तमांसपुरीषकम्
जानामि किंचिदबला त्वं वेदजनको विभुः
सर्वज्ञमेवंभूतं त्वां बोधयामि किमच्युत
मम को रक्षिता ब्रह्मन्धर्मस्य यौवनस्य च
सर्वदा रक्षिता कांतस्तदभावे च तत्सुतः 4.17.
याः स्वतंत्राश्च ता नष्टाः सर्वधर्मबहिष्कृताः
शतजन्मकृतं पुण्यं तासां नश्यति पद्मज ।। पुत्रस्नेहो यथा बाल्ये तथा यूनि च वार्द्धके
पतिव्रतानां कान्ते च सर्वकाले समा स्पृहा
पतिस्नेहस्य साध्वीनां कलां नार्हति षोडशीम्
कान्ते चित्तं सतीनां च स्वप्ने ज्ञाने च सन्ततम्
सुदारुणः स्वामिनश्च दुःखं नातः परं स्त्रियाः
तथा विदग्धा दग्धा स्याद्विदग्धविरहानले
विरहाग्नौ मनो दग्धं वह्नौ शुष्कतृणं यथा