पुष्पभद्रानदीतीरे निर्जने केतकीवने
नन्दने मन्दरद्रोण्यां कावेरीतीरजे वने 4.17.
द्वीपेद्वीपे तु रहसि स रेमे वामया सह
एवं वर्षसहस्रं तद्गतमेव मुहूर्तवत्
जगाम तपसे विन्ध्यशैलं तीर्थं तया सह
तपस्तेपे नृपस्तत्र दिव्यवर्षसहस्रकम्
मूर्छामाप मुनिश्रेष्ठ ध्यात्वा कृष्णपदाम्बुजम्
निश्चेष्टितं पतिं दृष्ट्वा त्यक्तं प्राणैश्च पञ्चभिः
उच्चै रुरोद शोकार्ता निर्जने तु कलावती
विललाप महादीना पतिव्रतपरायणा
श्रुत्वा च रोदनं तस्याः कृपया च कृपानिधिः
क्रोडे कृत्वा च तं तूर्णं रुरोद भगवान्विभुः 4.17.
जीवं संचारयामास ब्रह्मज्ञानेन ब्रह्मवित्
प्रणनाम च तं दृष्ट्वा तं च कामसमप्रभम्
स विधेर्वचनं श्रुत्वा वव्रे निर्वाणमीप्सितम्
प्रसन्नवदनः श्रीमान्स्मेराननसरोरुहः
तमुवाच सती त्रस्ता वरं दातुं समुद्यतम् कलावत्युवाच
अतोऽबलाया हे ब्रह्मन्का गतिर्भविता वद
व्रतं पतिव्रतायाश्च पतिरेव श्रुतौ श्रुतम्
सर्वेषां च प्रियतरो न बन्धुः स्वामिनः परः
स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत्
स्नानं च सर्वतीर्थेषु पृथिव्याश्च प्रदक्षिणम् 4.17.
पठनं सर्ववेदानां सर्वाणि च तपांसि च
एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम्
पतंति कालसूत्रे च यावच्चंद्रदिवाकरौ
संततं विपरीतं च कुर्वंति शब्दमुल्बणम्
मुखे तासां ददत्येवमुल्कां च यमकिंकराः
भक्षंति जन्मशतकं रक्तमांसपुरीषकम्
जानामि किंचिदबला त्वं वेदजनको विभुः
सर्वज्ञमेवंभूतं त्वां बोधयामि किमच्युत