युक्तं नवभिरारोहैरिन्द्रनीलविनिर्मितैः अत्युच्छ्रितं मनोरम्यं सर्वतोऽपि विलक्षणम्
नारद उवाच यत्नतो यद्गृहं रम्यं निर्ममे सुरकारुणा
श्रीकृष्णार्द्धांशसंभूता तेन तुल्या च तेजसा यस्यां च सुदृढां भक्तिं सन्तो वाञ्छंति सन्ततम् ।। 4.17.
नारद उवाच मानवः केन पुण्येन कथमाप सुदुर्लभाम्
वृषभानुर्व्रजपतिः पुराऽऽसीत्को महानहो
सूत उवाच प्रहस्योवाच प्रीत्या तमितिहासं पुरातनम्
नारायण उवाच
कलावती रत्नमाला मेनकाश्चातिदुर्लभाः
शैलाधिपं हरेरंशं मेनका सा हिमालयम्
श्रीरामपत्नी श्रीः साक्षात्सीता सत्यपरायणा
कलावती सुचन्द्रं च मनुवंशसमुद्भवम्
मन्ये गुणवतां श्रेष्ठमात्मानमतिसुन्दरम् 4.17.
सुकोमलाङ्गं ललितं शरच्चन्द्राधिकाननम्
कटाक्षैर्मोहितुं शक्ता मुनीन्द्राणां च मानसम्
स्तनद्वयं सुकठिनमतिपीनोन्नतं मुने
हस्तौ पादौ च रक्तौ च पक्वबिम्बफलाधरम्
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम्
इतीव मत्वा दृष्ट्वा च कामबाणप्रपीडितः
क्रीडां चकार रहसि स्थानेस्थाने मनोहरे
चारुचम्पकपुष्पाणां तल्पे रतिसुखावहे
पुष्पभद्रानदीतीरे निर्जने केतकीवने
नन्दने मन्दरद्रोण्यां कावेरीतीरजे वने 4.17.
द्वीपेद्वीपे तु रहसि स रेमे वामया सह
एवं वर्षसहस्रं तद्गतमेव मुहूर्तवत्
जगाम तपसे विन्ध्यशैलं तीर्थं तया सह
तपस्तेपे नृपस्तत्र दिव्यवर्षसहस्रकम्
मूर्छामाप मुनिश्रेष्ठ ध्यात्वा कृष्णपदाम्बुजम्
निश्चेष्टितं पतिं दृष्ट्वा त्यक्तं प्राणैश्च पञ्चभिः
उच्चै रुरोद शोकार्ता निर्जने तु कलावती
विललाप महादीना पतिव्रतपरायणा