श्रीकृष्ण उवाच
देवप्रीतिं विना शक्ता नहि द्रष्टुं च केचन
प्रातर्यूयं गृहान्रम्यान्द्रक्ष्यथाद्य ध्रुवं मुदा
देवीं च वटमूलस्थां पूजां कुरुत चण्डिकाम् भुक्त्वा भोगान्दिने रात्रौ तत्रैव सुषुपुर्मुदा
सुप्तेषु व्रजनन्देषु नक्तं वृन्दावने वने
निद्रितासु च गोपीषु रम्यतल्पस्थितासु च
कासुचिच्छिशुयुक्तासु सखीयुक्तासु कासुचित्
पूर्णेन्दुकौमुदीयुक्ते स्वर्गादपि मनोहरे
सर्वप्राणिनि निश्चेष्टे मुहूर्ते पञ्चमे गते
बिभ्रद्दिव्यांशुकं सूक्ष्मं रत्नमाल्यं मनोहरम्
ज्ञानेन वयसा वृद्धो दर्शनीयः किशोरवत्
विशिष्टशिल्पनिपुणैः सार्द्धं शिल्पित्रिकोटिभिः
आजग्मुर्यक्षनिकराः कुबेरवनकिंकराः
पद्मरागकरा केचिदिन्द्रनीलकरा वराः 4.17.
सूर्यकान्तकराश्चान्ये प्रभाकरकरा वराः
केचिच्च गन्धसाराणां मणीन्द्राणां च वाहकाः
स्वर्णपात्रघटादीनां वाहकाश्चैव केचन
नगरं कर्तुमारेभे ध्यात्वा कृष्णं शुभेक्षणम्
पुण्यक्षेत्रं तीर्थसारमतिप्रियतमं हरेः
गोलोकस्य च सोपानं सर्वेषां वाञ्छितप्रदम्
कपाटस्तम्भसोपानसहितैः प्रस्तरैर्वरैः
शैलजाश्मविनिर्माणवेदिप्रांगणसंयुतम्
यथोचितबृहत्क्षुद्रद्वारद्वयसमन्वितम्
सोपानैर्गन्धसाराणां स्तम्भैः शंकुविनिर्मितैः 4.17.
वज्रसारविनिर्माणप्राकारैः परिशोभितम् वृषभान्वालयं रम्यं कर्तुमारब्धवान्पुनः
प्राकारपरिखायुक्तं चतुर्द्वारान्वितं परम्
रत्नसारविकारैश्च तूलिकानिकरैर्वरैः
लोहसारकपाटैश्च शोभितं चित्रकृत्रिमैः
तदाश्रमैकदेशे च निर्जनेऽतिमनोहरे
संभोगार्थं कलावत्याः स्वामिना सह कौतुकात्