स्वयं ब्रह्मा च जगतां विधाता सर्वकारकः 1.17.
युगलक्षं तपस्तप्तं श्रीकृष्णस्य च वेधसा
असंख्यकालं सुचिरं तपस्तप्तं हरेर्मया
अधुना पञ्चवक्त्रेण यन्नामगुणकीर्तनम्
मत्तो याति च मृत्युश्च यन्नामगुणकीर्त्तनात्
सर्वब्रह्माण्डसंहर्त्ताऽप्यहं मृत्युंजयाभिधः
काले तत्र विलीनोऽहमाविर्भूतस्ततः पुनः
गोलोके यः स वैकुण्ठे श्वेतद्वीपे स एव च
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
एतत्संख्याविशिष्टस्य शतवर्षायुषो विधेः
अहं कलानामृषभः कृष्णस्य परमात्मनः 1.17.
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक
धर्म उवाच सर्वान्तरात्मा प्रत्यक्षोऽप्रत्यक्षश्च दुरात्मनः
अधुनाऽपि सभां विष्णुर्नायात इति यद्वचः
महन्निन्दा भवेद्यत्र नैव साधु शृणोति ताम्
श्रुत्वा दैवान्महन्निन्दां श्रीविष्णोः स्मरणाद् बुधः
कामतोऽकामतो वाऽपि विष्णुनिन्दां करोति यः
कुम्भीपाके पचति स यावद्धि ब्रह्मणो वयः
प्राणी च नरकं याति श्रुतं तत्रैव चेद्ध्रुवम्
अप्रत्यक्षं च कुरुते किं वा तं च न मन्यते
तस्यात्र निष्कृतिर्नास्ति यावद्वै ब्रह्मणः शतम् स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ।। 1.17.
विष्णुर्गुरुश्च सर्वेषां जनको ज्ञानदायकः
एषां च वचनं श्रुत्वा त्रयाणां विप्रपुङ्गव
ब्राह्मण उवाच नागतो हरिरत्रेति व्यर्थाऽऽकाशसरस्वती
इति प्रोक्तं मया भद्रं ब्रूत धर्मार्थमीश्वराः
यूयं च भावुका ब्रूत विष्णुः सर्वत्र सन्ततम्
अंशांशिनोर्न भेदश्चेदात्मनश्चेति निश्चितम्
कोटिजन्मदुराराध्यमसाध्यमसतामपि
किं क्षुद्राः किं महान्तश्च वाञ्छन्ति परमं पदम्
यो विष्णुर्विषयी विश्वे श्वेतद्वीपनिवासकृत्