गोपालबालकाः सर्वे विप्रेन्द्र नवकोटयः
वृद्धाश्च कोटिशस्तत्र बृहच्छ्रोण्यश्चलत्कुचाः
ताः सुशीलादयो भव्या नानालंकारभूषिताः
काश्चिदारुह्य शिबिकां रथमारुह्य काश्चन
ताभिर्युक्ता ययौ देवी रत्नालंकार भूषिता
ययौ स्यन्दनमारुह्य शातकौम्भपरिच्छदम् 4.16.
वीरभानुश्चन्द्रभानुर्गजस्थाः प्रययुर्मुदा
स्वर्ण स्यन्दनमास्थाय जग्मतुः परया मुदा
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चैव केचन
वृषस्था गर्दभस्थाश्च संगीततानतत्पराः
मुदान्विताः सस्मिताश्च स्वर्णालंकारभूषिताः
काश्चित्कन्दुकहस्ताश्च काश्चित्पुत्तलिकाकराः
वेषद्रव्यकराः काश्चित्काश्चिन्मालाकरा वराः
वह्निशुद्धांशुकानां च वाहिकाश्चैव काश्चन
काश्चित्संगीतनिरताः काश्चिच्चित्रकथारताः
कोटिशः कोटिशश्चाश्वाः कोटिशः कोटिशो रथाः 4.16.
कोटिशः कोटिशश्चैव वृषेन्द्रा द्रव्यवाहकाः
हस्तिपांकुशयुक्तानि ययुर्वृन्दावनं वनम्
वृक्षमूले यथास्थानं तस्थुः सर्वे यथोचितम्
अद्य संतिष्ठतेत्येवं श्रुत्वा श्रीकृष्णभाषितम् इति तेषां वचः श्रुत्वा श्रीकृष्णो वाक्यमब्रवीत्
श्रीकृष्ण उवाच
देवप्रीतिं विना शक्ता नहि द्रष्टुं च केचन
प्रातर्यूयं गृहान्रम्यान्द्रक्ष्यथाद्य ध्रुवं मुदा
देवीं च वटमूलस्थां पूजां कुरुत चण्डिकाम् भुक्त्वा भोगान्दिने रात्रौ तत्रैव सुषुपुर्मुदा
सुप्तेषु व्रजनन्देषु नक्तं वृन्दावने वने
निद्रितासु च गोपीषु रम्यतल्पस्थितासु च
कासुचिच्छिशुयुक्तासु सखीयुक्तासु कासुचित्
पूर्णेन्दुकौमुदीयुक्ते स्वर्गादपि मनोहरे
सर्वप्राणिनि निश्चेष्टे मुहूर्ते पञ्चमे गते
बिभ्रद्दिव्यांशुकं सूक्ष्मं रत्नमाल्यं मनोहरम्