श्रीकृष्णबालचरितं नूत्नं नूत्नं पदे पदे
जगाम स्वगृहं कृष्णः कुबेरभवनोपमम्
श्रुत्वैवं विस्मिताः सर्वे नन्दो भयमवाप ह
युक्तिं चकार तैः सार्द्धमालोच्य समयोचिताम्
गन्तुं वृन्दावनं सर्वानुवाच तत्क्षणं मुने
गोपाश्च गोपिकाश्चैव बालका बालिकास्तथा 4.16.
संगीतं च प्रगायन्तो नानावेष समन्विताः
करतालकराः केचिद्वीणाहस्ताश्च केचन
नवपल्लवकर्णाश्च केचिद्गोपालबालकाः
नवमाल्यकराः केचित्केचिदाजानुमालिनः
गोपालबालकाः सर्वे विप्रेन्द्र नवकोटयः
वृद्धाश्च कोटिशस्तत्र बृहच्छ्रोण्यश्चलत्कुचाः
ताः सुशीलादयो भव्या नानालंकारभूषिताः
काश्चिदारुह्य शिबिकां रथमारुह्य काश्चन
ताभिर्युक्ता ययौ देवी रत्नालंकार भूषिता
ययौ स्यन्दनमारुह्य शातकौम्भपरिच्छदम् 4.16.
वीरभानुश्चन्द्रभानुर्गजस्थाः प्रययुर्मुदा
स्वर्ण स्यन्दनमास्थाय जग्मतुः परया मुदा
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चैव केचन
वृषस्था गर्दभस्थाश्च संगीततानतत्पराः
मुदान्विताः सस्मिताश्च स्वर्णालंकारभूषिताः
काश्चित्कन्दुकहस्ताश्च काश्चित्पुत्तलिकाकराः
वेषद्रव्यकराः काश्चित्काश्चिन्मालाकरा वराः
वह्निशुद्धांशुकानां च वाहिकाश्चैव काश्चन
काश्चित्संगीतनिरताः काश्चिच्चित्रकथारताः
कोटिशः कोटिशश्चाश्वाः कोटिशः कोटिशो रथाः 4.16.
कोटिशः कोटिशश्चैव वृषेन्द्रा द्रव्यवाहकाः
हस्तिपांकुशयुक्तानि ययुर्वृन्दावनं वनम्
वृक्षमूले यथास्थानं तस्थुः सर्वे यथोचितम्
अद्य संतिष्ठतेत्येवं श्रुत्वा श्रीकृष्णभाषितम् इति तेषां वचः श्रुत्वा श्रीकृष्णो वाक्यमब्रवीत्