पुरोहितं पुलस्त्यं च कृत्वा श्रुत्युक्त्या मुने
रतिश्चकार तद्भक्त्या गौतमस्तत्पुरोहितः
महासंभृतसंभारा वसिष्ठस्तत्पुरोहितः
महासम्भृतसम्भारस्तत्पुरोधा बृहस्पतिः
अतिसंभृतसंभारो मरीचिस्तत्पुरोहितः पुटाञ्जलियुता देवी भक्तिनम्रात्मकन्धरा
पार्वत्युवाच
आवयोरिष्टदेवस्य व्रतानां च परं व्रतम् 4.16.
इष्टं दत्तं श्रुतेः पाठं तीर्थं पृथ्व्याः प्रदक्षिणम्
बहिरभ्यंतरे यस्य हरिस्मृतिरनुक्षणम्
तस्य पादाब्जरजसा सद्यः पूता वसुन्धरा
ब्रह्मा विष्णुश्च धर्मश्च शेषस्त्वं च गणेश्वरः
यश्च यं सन्ततं ध्यायेत्स तमाप्नोति निश्चितम्
कृष्णस्य स्मरणाद्ध्यानात्तपसा तस्य सेवया
प्रलब्धं लीलया सर्वं पूर्णं मन्मानसं तदा
पिता हिमाद्रिः कृष्णांशो मम किं दुर्लभं प्रभो प्रहस्योवाच मधुरं पुलकांकितविग्रहः
सर्वसम्पत्स्वरूपा त्वमनन्तशक्ति रूपिणी 4.16.
न लक्ष्मीर्यद्गृहे तस्य जीवनान्मरणं वरम्
संहारे सृष्टिकाले च त्वत्प्रसादाद्वयं क्षमाः
त्वद्विहीना अशक्ताश्च त्वया च वयमीश्वराः
गृहीत्वाऽऽज्ञामीश्वरस्य व्रतं कुरु पतिव्रते
सनत्कुमारो भगवान्व्रते तेऽस्तु पुरोहितः
कुबेरं द्रव्यकोशे च रक्षकं कुरु सुन्दरि
पाठको वह्निदेवश्च वरुणो जलदायकः
स्थानसंस्कार कर्ता च व्रतेऽत्र पवनः स्वयम्
सूर्यश्च दाननिर्वक्ता योग्यायोग्यं यथोचितम्
ततोऽधिकं फलं पुष्पं हरये देहि सुन्दरि 4.16.
असंख्यान्ब्राह्मणान्देवि भक्त्या कुरु निमन्त्रणम्
व्रतोक्तां दक्षिणां दत्त्वा सर्वं देहि द्विजातये
व्रतं चकार सा दुर्गा सर्वाभ्यश्च विलक्षणम्
रत्नं वोढुमशक्ताश्च ब्राह्मणाः पार्वतीव्रते