मानसं गोपिकानां च मोहयन्तं मुहुर्मुहुः
ब्रह्मानन्तेशधर्माद्यैः स्तूयमानमहं भजे
ध्यायेत्तदा राधिकां च ध्यानं मध्यंदिनेरितम्
रासमण्डलमध्यस्थां रासाधिष्ठातृदेवताम्
रसिकप्रवरां रम्यां रमां च रमणोत्सुकाम्
वक्रभ्रूभङ्गसंयुक्तां मञ्जीरेणैव रञ्जिताम्
चारुचम्पकवर्णाभां चन्दनेन विभूषिताम्
चारुपत्रावलीयुक्तां वह्निशुद्धांशुकोज्ज्वलाम् 4.16.
रत्नेन्द्रसारहारेण वक्षःस्थलविराजिताम्
सद्रत्नसाररचितक्वणन्मञ्जीररञ्जिताम्
सर्वेशेन स्तूयमानां सर्वबीजां भजाम्यहम्
भक्त्या दत्त्वा प्रतिदिनमुपचारांश्च षोडश
सहस्रकमलं दिव्यं शतमष्टोत्तरं मुने
दद्याद्भक्त्या च कृष्णाय स्वाहेत्युच्चार्य यत्नतः
नित्यमष्टोत्तरशतं दद्याद्भक्त्याऽक्षतैः फलम्
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः
तिलेन हवनं कुर्यादाज्यमिश्रेण नारद
एवं मासत्रयं कृत्वा प्रतिष्ठां तदनन्तरम् ।। 4.16.
कमलानां च नवतिसहस्राण्यक्षतानि च
भोजयेत्परमान्नानि स्वादूनि मिष्टकानि च
दद्यान्नानाविधं द्रव्यं नैवेद्यं सुमनोहरम्
नवतिं च सहस्राणि हुत्वाऽऽज्येन तिलेन च
गन्धपुष्पार्चितान्भक्त्या दद्यान्नवतिलड्डुकान्
एवंविधं व्रतं कृत्वा दद्याद्विप्राय दक्षिणाम्
वृषेन्द्राणां सहस्रं च स्वर्णशृङ्गसमन्वितम्
विशिष्टसंततिकरं पतिसौभाग्यवर्द्धनम्
दासतुल्यो भवेत्पुत्रो भर्ता च स्ववचस्करः 4.16.
भवेद्व्रतप्रभावेण प्राप्तज्ञानहरिस्स्मृतिः
सर्वेषां च व्रतानां च श्रेष्ठं शृणु वदामि ते
तया कृतं प्रथमतः कृत्वाऽगस्त्यं पुरोहितम्