आजग्मुर्दानवीं योनिमिति ते दानवेश्वराः
सुदर्शनः प्रलम्बोऽयं स्वयं केशी सुपार्श्वकः
मृत्युं संप्राप्य श्रीकृष्णाज्जग्मुस्ते कृष्णमन्दिरम् बककेशिप्रलम्बानां मोक्षणं मोक्षकारकम्
कानि द्रव्याणि भगवन्व्रतोपयोगिकनि च
सुविचार्य वद विभो श्रोतुं कौतूहलं मम व्रतं त्रैमासिकं नाम पतिसौभाग्यवर्धनम्
आराध्यो भगवान्कृष्णो राधिकासहितो मुने
संयम्य पूर्वदिवसे कृत्वाऽवश्यं हविष्यकम्
घटे मणौ शालग्रामे जले वा पूजयेद्व्रती 4.16.
ध्यानं च सामवेदोक्तं निबोध कथयामि ते
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम्
मानसं गोपिकानां च मोहयन्तं मुहुर्मुहुः
ब्रह्मानन्तेशधर्माद्यैः स्तूयमानमहं भजे
ध्यायेत्तदा राधिकां च ध्यानं मध्यंदिनेरितम्
रासमण्डलमध्यस्थां रासाधिष्ठातृदेवताम्
रसिकप्रवरां रम्यां रमां च रमणोत्सुकाम्
वक्रभ्रूभङ्गसंयुक्तां मञ्जीरेणैव रञ्जिताम्
चारुचम्पकवर्णाभां चन्दनेन विभूषिताम्
चारुपत्रावलीयुक्तां वह्निशुद्धांशुकोज्ज्वलाम् 4.16.
रत्नेन्द्रसारहारेण वक्षःस्थलविराजिताम्
सद्रत्नसाररचितक्वणन्मञ्जीररञ्जिताम्
सर्वेशेन स्तूयमानां सर्वबीजां भजाम्यहम्
भक्त्या दत्त्वा प्रतिदिनमुपचारांश्च षोडश
सहस्रकमलं दिव्यं शतमष्टोत्तरं मुने
दद्याद्भक्त्या च कृष्णाय स्वाहेत्युच्चार्य यत्नतः
नित्यमष्टोत्तरशतं दद्याद्भक्त्याऽक्षतैः फलम्
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः
तिलेन हवनं कुर्यादाज्यमिश्रेण नारद
एवं मासत्रयं कृत्वा प्रतिष्ठां तदनन्तरम् ।। 4.16.
कमलानां च नवतिसहस्राण्यक्षतानि च
भोजयेत्परमान्नानि स्वादूनि मिष्टकानि च