सद्यो देहं परित्यज्य बभूव कृष्णपार्षदः ।। 4.16.
पद्मानि कृष्णपूजार्थमाहर्तुमुदये रवेः
दृष्ट्वा निबध्य संजग्मुः सर्वे शंकरकिंकराः
ते सर्वे शंकरं दृष्ट्वा प्रणेमुः शिरसा भुवि ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः
लक्षयक्षै रक्षणीयं पार्वतीव्रतहेतवे
व्रते त्रैमासिके भक्त्या पतिसौभाग्यवर्द्धने पुटाञ्जलियुताः सर्वे भक्तिनम्रात्मकन्धराः
गन्धर्वा ऊचुः वयं गन्धर्वप्रवरा गन्धवाहसुता विभो
हरये कमलं दत्त्वा पिबामो जलमीश्वर
गृहाण कमलं सर्वं युष्माकं च फलं कुरु
किं वा कथं न पास्यामस्तुभ्यं दत्तानि तानि च 4.16.
साक्षात्तस्मै प्रदत्त्वा च पद्मं पूता वयं प्रभो
भक्तानुग्रहतो देहो रूपभेदश्च मायया
यतो नो मानसं पूर्णं तद्रूपं दर्शयाच्युत
विनोदमुरलीहस्तं पीतांबरधरं परम्
ईषद्धास्यप्रसन्नास्यं रत्नालंकारभूषितम्
मयूरपिच्छचूडं च मालतीमाल्यभूषितम्
कोटिकन्दर्पलावण्यलीलाधाममनोहरम्
नवयौवनसंपन्नं राधावक्षस्थलस्थितम्
स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम्
श्रीकृष्णरूपश्रवणात्पुलकाङ्कितविग्रहः 4.16.
श्रीकृष्णरूपश्रवणात्साश्रुपूर्णविलोचनः
पूतां कर्तुं च भ्रमथ चरणाम्भोजरेणुना
समागमो हि साधूनां त्रिषु लोकेषु दुर्लभः
आत्मनश्चात्मभक्तेभ्यो वैष्णवाश्च प्रियाश्च नः
तच्छ्रूयतां महाभागाः पार्वतीव्रतकर्मणि
ते तूर्णमासुरीं योनिं गमिष्यन्ति न संशयः
संप्राप्य मानवीं योनिं गोलोकं यास्यथ ध्रुवम्
ध्रुवं द्रक्ष्यथ भो वत्सा वृन्दारण्ये च भारते
दिव्यं स्यंदनमारुह्य गमिष्यथ हरेर्गृहम्
तत्सर्वं पश्यतेत्युक्त्वा दर्शयामास तच्छिवः 4.16.