हुताशनश्च वाह्नेन पक्षांश्चैव ददाह सः 4.16.
ईशानस्य च शूलेन बभूव मूर्च्छितोऽसुरः
एतस्मिन्नन्तरे कृष्णः प्रज्वलन्ब्रह्मतेजसा
तत्सर्वं वमनं कृत्वा प्राणांस्तत्याज दानवः
ययौ केलिकदम्बानां काननं सुमनोहरम्
नाम्ना प्रलम्बो बलवान्महाधूर्तश्च शैलवत्
दुद्रुवुर्बालकाः सर्वे रुरुदुश्च भयातुराः
बालकान्बोधयामास भयं किमित्युवाच ह
भ्रामयित्वा च गगने पातयामास भूतले
जहसुर्बालकाः सर्वे ननृतुश्च जगुर्मुदा
गोधनं चारयामास ययौ भाण्डीरमीश्वरः 4.16.
वेष्टयामास तं शीघ्रं खुरेण विलिखन्महीम्
उत्पात्य भ्रामयामास पपात च महीतले
स भग्नदन्तो दैत्यश्च वज्राङ्गचर्वणादहो
स्वर्गे दुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह
तत्राजग्मुः स्यन्दनस्था द्विभुजाः पीतवाससः
विनोदमुरलीहस्ताः क्वणन्मञ्जीररञ्जिताः
ईषद्धास्यप्रसन्नास्या भक्तानुग्रह कातराः
भाण्डीरवनमाजग्मुर्यत्र सन्निहितो हरिः
प्रणमय्य हरिं स्तुत्वा जग्मुर्गोलोकमुत्तमम् संप्राप्य दानवीं योनिं बभूबुः कृष्णपार्षदाः
नारद उवाच कथयस्व महाभाग कृतं किं परमाद्भुतम् ।। 4.16.
नारायण उवाच
श्रुतं महेशवदनात्सूर्यपर्वणि पुष्करे।। हरेर्गुणप्रसङ्गेन कथयामास शंकरः
संपृष्टो मुनिसंघैश्च मया धर्मेण ब्रह्मणा
कथयामास विस्तार्य सावधानं निशामय
महांस्तपस्विप्रवरो हरिसेवनतत्परः
सस्मरुः कृष्णपादाब्जं स्वप्ने ज्ञाने दिवानिशम्
नित्यं दत्त्वा च कमलं संपूज्य तं पपुर्जलम्
चत्वारो वैष्णवश्रेष्ठास्तेपुस्ते पुष्करे तपः
ज्येष्ठो दुर्वाससो योगं संप्राप्य योगिनां वरः