मुरलीं माधवकराज्जग्राह राधिका बलात्
जहार राधिका रासान्माधवस्यापि मानसम्
प्रददौ मुरलीं प्रीत्या श्रीकृष्णाय महात्मने 4.15.
चकार कबरीं रम्यां सिन्दूरतिलकं ददौ
विश्वकर्मा न जानाति सखीनामपि का कथा
बभूव शिशुरूपं च कैशोरं च विहाय च
यादृशं प्रददौ नन्दो भीतं तादृशमच्युतम्
इतस्ततस्तं पश्यन्ती शोकार्ता विरहातुरा
मायां करोषि मायेश किंकरीं कथमीदृशीम्
रुरोद कृष्णस्तत्रैव वाग्बभूवाशरीरिणी
आरासमण्डलं यावन्नक्तमत्रागमिष्यति
छायां विधाय स्वगृहे स्वयमागत्य मा रुद
त्यज शोकं गृहं गच्छ सुन्दरीत्थं प्रबोधिता ।। 4.15.
ददर्श पुष्पोद्यानं च वनं सद्रत्नमण्डपम्
सा मनोयायिनी देवी निमिषार्धेन नारद
यशोदायै शिशुं दातुमुद्यता सत्युवाच ह
गोष्ठे त्वत्स्वामिना दत्तं प्राप्नोमि यातनां पथि
पिच्छिले कर्दमोद्रेके यशोदा वोढुमक्षमा
गृहं चिरं परित्यक्तं यामि तिष्ठ सुखं सति
यशोदा बालकं नीत्वा चुचुम्ब च स्तनं ददौ
नित्यं नक्तं रतिं तत्र चकार हरिणा सह सुखदं मोक्षदं पुण्यमपरं कथयामि ते
श्रीनारायण उवाच भुक्त्वा पीत्वा च क्रीडार्थं जगाम श्रीवनं मुने
तत्र नानाविधां क्रीडां चकार मधुसूदनः
ययौ मधुवनं तस्माच्छ्रीकृष्णो गोधनैः सह
तत्रैकदैत्यो बलवाञ्छ्वेतवर्णो भयंकरः
दृष्ट्वा च गोकुलं गोष्ठे शिशुभिर्बलकेशवौ
बकग्रस्तं हरिं दृष्ट्वा सर्वे देवा भयान्विताः
शक्रश्चिक्षेप वज्रं च मुनेरस्थिविनिर्मितम्
नीहारास्त्रं शशधरः शीतार्तस्तेन दानवः
वायव्यास्त्रं च वायुश्च तेन स्थानान्तरं ययौ