प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः
तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम्
पाठयामास वेदोक्तान्पञ्च मन्त्रांश्च नारद 4.15.
कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः
दुन्दुभिं वादयामासुश्चानकं मुरजादिकम्
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः
युवयोश्चरणाम्भोजे भक्तिं मे देहि दक्षिणाम्
मदीयचरणाम्भोजे सुदृढा भक्तिरस्तु ते
मया नियोजितं कर्म कुरु वत्स ममाज्ञया
प्रणम्य राधां कृष्णं च जगाम स्वालयं मुदा
सा ददर्श हरेर्वक्त्रं चच्छाद व्रीडया मुखम्
प्रणम्य श्रीहरिं भक्त्या जगाम शयनं हरेः
ललाटे तिलकं कृत्वा ददौ कृष्णस्य वक्षसि 4.15.
प्रददौ हरये भक्त्या बुभुजे जगतीपतिः
ददौ कृष्णाय सा राधा सादरं बुभुजे हरिः
ताम्बूलं तेन दत्तं च बुभुजे पुरतो हरेः
चखाद परया भक्त्या पपौ तन्मुखपङ्कजम्
जहास न ददौ राधा क्षमेत्युक्तं तया मुदा राधिकायाश्च सर्वांगे प्रददौ माधवः स्वयम्
यः कामो ध्यायते नित्यं यस्यैकचरणाम्बुजम्
यद्भृत्यभृत्यैर्मदनो जितः सर्वक्षणं मुने
करे धृत्वा च तां कृष्णः स्थापयामास वक्षसि
बभूव रतियुद्धेन विच्छिन्ना क्षुद्रघण्टिका
शृंगारेणैव कबरी सिन्दूरतिलकं मुने 4.15.
पुलकाङ्कितसर्वांङ्गी बभूव नवसंगमात्
प्रत्यङ्गेनैव प्रत्यङ्गमङ्गेनाङ्गं समाश्लिषत्
पुनस्तां च समाश्लिष्य सस्मितां वक्रलोचनाम्
कङ्कणानां किङ्किणीनां मञ्जीराणां मनोहरः
पुनस्तां च समाकृष्य शय्यायां च निवेश्य च
निर्जने कौतुकात्कृष्णः कामशास्त्रविशारदः
न कस्य कस्माद्धानिश्च तौ द्वौ कार्यविशारदौ