वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते
वरं च युवयोः पादपद्मभक्तिं च देहि मे
पुनर्ननाम तां भक्त्या विधाता जगतां पतिः 4.15.
हरिं संस्मृत्य हवनं चकार विधिना विधिः
ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम्
कौतुकं कारयामास सप्तधा च प्रदक्षिणाम्
प्रणमय्य ततः कृष्णं वासयामास तं विधिः
वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम्
श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजापतिः
पारिजातप्रसूनानां मालां जानुविलम्बिताम्
प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः
तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम्
पाठयामास वेदोक्तान्पञ्च मन्त्रांश्च नारद 4.15.
कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः
दुन्दुभिं वादयामासुश्चानकं मुरजादिकम्
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः
युवयोश्चरणाम्भोजे भक्तिं मे देहि दक्षिणाम्
मदीयचरणाम्भोजे सुदृढा भक्तिरस्तु ते
मया नियोजितं कर्म कुरु वत्स ममाज्ञया
प्रणम्य राधां कृष्णं च जगाम स्वालयं मुदा
सा ददर्श हरेर्वक्त्रं चच्छाद व्रीडया मुखम्
प्रणम्य श्रीहरिं भक्त्या जगाम शयनं हरेः
ललाटे तिलकं कृत्वा ददौ कृष्णस्य वक्षसि 4.15.
प्रददौ हरये भक्त्या बुभुजे जगतीपतिः
ददौ कृष्णाय सा राधा सादरं बुभुजे हरिः
ताम्बूलं तेन दत्तं च बुभुजे पुरतो हरेः
चखाद परया भक्त्या पपौ तन्मुखपङ्कजम्
जहास न ददौ राधा क्षमेत्युक्तं तया मुदा राधिकायाश्च सर्वांगे प्रददौ माधवः स्वयम्
यः कामो ध्यायते नित्यं यस्यैकचरणाम्बुजम्
यद्भृत्यभृत्यैर्मदनो जितः सर्वक्षणं मुने