त्वन्मनोरथपूर्णस्य स्वयं कालः समागतः
तदेव खण्डितुं राधे क्षमो नाहं च को विधिः
मालाकमण्डलुकर ईषत्स्मेरचतुर्मुखः 4.15.
साश्रुनेत्रपुलकितो भक्तिनम्रात्मकन्धरः
पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम्
चकार संभ्रमेणैव जटाजालेन वेष्टितम्
यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः ब्रह्मोवाच हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः
सुदुर्लभं च सर्वेषां भारते च विशेषतः
भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः
वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा
हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय
दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च
सर्वेषां वाञ्छितं मातर्गोलोके भारतेऽधुना 4.15.
त्वं कृष्णाङ्गार्धसंभूता तुल्या कृष्णेन सर्वतः
नहि वेदेषु मे दृष्ट इति केन निरूपितम्
वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता
आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि
किमहो निर्मितः केन हेतुना शिल्पकारिणा
अस्यांशा त्वं त्वदंशो वाऽप्ययं केन निरूपितः
तं पठित्वा गुरुमुखाद्भवन्त्येव बुधा जनाः
वेदो वा पण्डितो वाऽन्यः को वा त्वां स्तोतुमीश्वरः
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः 4.15.
यददृष्टाश्रुते वस्तु तन्निर्वक्तुं च कः क्षमः
सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः
ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा
जननी जनको यो वा सर्वं क्षमति स्नेहतः
प्रणम्य चरणाम्भोजे सर्वेषां वन्द्यमीप्सितम्
राधामाधवयोः पादे भक्तिर्दास्यं लभेद्ध्रुवम् विलङ्घ्य सर्वलोकांश्च याति गोलोकमुत्तमम्
श्रीनारायण उवाच