शक्त्या बुद्ध्या च ज्ञानेन मया तुल्या वरानने
तस्य वासः कालसूत्रे यावच्चन्द्रदिवाकरौ
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम्
पच्यन्ते नरके घोरे यावच्चन्द्रदिवाकरौ 4.15.
धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः यावजीवनपर्यन्तं या प्रीतिर्जायते मम
सा प्रीतिर्मम जायेत राधाशब्दात्ततोऽधिका
ब्रह्मानन्तः शिवो धर्मो नरनारायणावृषी
लक्ष्मीः सरस्वती दुर्गा सावित्री प्रकृतिस्तथा
ते सर्वे प्राणतुल्या मे त्वं मे प्राणाधिका सती
या मे चतुर्भुजा मूर्तिर्बिभर्त्ति वक्षसि प्रियाम्
इत्येवमुक्त्वा श्रीकृष्णस्तस्थौ तल्पे मनोरमे
राधिकोवाच यत्त्वं वदसि सर्वाहं त्वत्पादाब्जप्रसादतः
ईश्वरस्याप्रियाः केचित्प्रियाश्च कुत्र केचन
तृणं च पर्वतं कर्तु समर्थः पर्वतं तृणम् 4.15.
तिष्ठत्यहं शयानस्त्वं कथाभिर्यत्क्षणं गतम्
वक्षःस्थले च शिरसि देहि ते चरणाम्बुजम्
पुरः पपात मे दृष्टिस्त्वदीयचरणाम्बुजे
प्रत्येकमङ्गं दृष्ट्वैव दत्ता शान्ते मुखाम्बुजे
राधिकावचनं श्रुत्वा जहास पुरुषोत्तमः
श्रीकृष्ण उवाच तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये
त्वन्मनोरथपूर्णस्य स्वयं कालः समागतः
तदेव खण्डितुं राधे क्षमो नाहं च को विधिः
मालाकमण्डलुकर ईषत्स्मेरचतुर्मुखः 4.15.
साश्रुनेत्रपुलकितो भक्तिनम्रात्मकन्धरः
पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम्
चकार संभ्रमेणैव जटाजालेन वेष्टितम्
यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः ब्रह्मोवाच हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः
सुदुर्लभं च सर्वेषां भारते च विशेषतः
भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः
वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा