आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम्
माया युवां च प्रच्छन्नौ न करिष्यति मद्वरात्
एवमुक्त्वा तु सानन्दं कृत्वा कृष्णं स्ववक्षसि
कृत्वा वक्षसि तं कामाच्छ्लेषंश्लेषं चुचुम्ब च
नानाविचित्रचित्राढ्यं चित्रकाननशोभितम् 4.15.
चन्दनागुरुकस्तृरीकुङ्कुमद्रवयुक्तया
नानाभोगसमायुक्तं दिव्यदर्पणसंयुतम्
मणीन्द्रसाररचितकपाटेन समन्वितम् कुङ्कुमाकारमणिभिः सप्तसोपानसंयुतम्
युक्तं षट्पदसंयुक्तैः पुष्पोद्यानं च पुष्पितैः
ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम्
सुधामधुभ्यां पूर्णानि रत्नकुम्भानि नारद
कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम्
पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम्
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम् 4.15.
शरत्प्रफुल्लकमलप्रभामोचनलोचनम्
त्रिवंकचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम्
सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ
कामाच्चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा
पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा नवसंगमयोग्यां च पश्यन्तीं वक्रचक्षुषा
श्रीकृष्ण उवाच
अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये
यथा त्वं च तथाऽहं च भेदो हि नावयोर्ध्रुवम्
यथा पृथिव्यां गन्धश्च तथाऽहं त्वयि संततम्
कुलालः स्वर्णकारश्च नहि शक्तः कदाचन 4.15.
सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः
त्वं मे शोभा स्वरूपाऽसि देहस्य भूषणं यथा
श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम्
सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः
न शरीरी यदाहं च तदा त्वमशरीरिणी
त्वं च शक्तिस्वरूपा च सर्वस्त्रीरूपधारिणी