मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः
सौतिरुवाच परस्परं च सम्भाषा बभूव तत्र संसदि
मा तं बुबुधिरे देवाः श्रीहरिं विप्ररूपिणम्
सुरान्सम्बोध्य विप्रश्च वाचा मधुरया द्विज
ब्राह्मण उवाच ययाचे जीवदानं च स्वामिनः शोककर्षिता
अधुना किमनुष्ठानमस्य कार्यस्य निश्चितम्
शप्तुकामा सुरान्सर्वान्साध्वी तेजस्विनी वरा
स्तुतिः कृता च युष्माभिः श्वेतद्वीपे हरेरपि
बभूवाकाशवाणीति पश्चाद्यास्यति केशव
ब्राह्मणस्य वचः श्रुत्वा स्वयं ब्रह्मा जगद्गुरुः
ब्रह्मोवाच योगेन प्राणांस्तत्याज पुनः शापान्ममैव हि ।। 1.17.
कालं लक्षयुगं व्याप्य स्थितिरस्य महीतले
अस्य कालावशेषस्य किञ्चिदस्ति द्विजोत्तम
दास्यामि जीवदानं च स्वयं विष्णोः प्रसादतः
नागतो हरिरत्रेति त्वया यत्कथितं द्विज
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः
विषिश्च व्याप्तिवचनो नुश्च सर्वत्रवाचकः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा
कर्मारम्भे च मध्ये वा शेषे विष्णुं च यः स्मरेत्
अहं स्रष्टा च जगतां विधाता संहरो हरः
कालः संहरते लोकान्यमः शास्ता च पापिनाम् 1.17.
सर्वेशा या च सर्वाद्या प्रकृतिः सर्वसूः पुरा
महेश्वर उवाच वेदानधीत्य भवता ज्ञातः कः सार एव च
शिष्यः कस्य मुनीन्द्रस्य कस्त्वं नाम्ना च भो द्विज
विडम्बयसि देवांश्च विष्णुमस्माकमीश्वरम्
यस्मिन्गते पतेद्देहो देहिनां परमात्मनि
जीवस्तत्प्रतिबिम्बश्च मनो ज्ञानं च चेतना
निद्रा दया च तन्द्रा च क्षुत्तृष्णा पुष्टिरेव च
प्रयाति यत्पुरः शक्तिरीश्वरे गमनोन्मुखे
ईश्वरे च स्थिते देही क्षमश्च सर्वकर्मसु