ननाम तां साश्रुनेत्रो भक्तिनम्रात्मकन्धरः
जानामीमं महाविष्णोः परं निर्गुणमच्युतम्
गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम्
इत्युक्त्वा प्रददौ तस्यै रुदन्तं बालकं भिया
उवाच नन्दं सा यत्नान्न प्रकाश्यं रहस्यकम्
प्राज्ञस्त्वं गर्गवचनात्सर्वं जानासि कारणम् 4.15.
वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम्
राधिकावचनं श्रुत्वा तामुवाच व्रजेश्वरः
युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम्
श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी
आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम्
माया युवां च प्रच्छन्नौ न करिष्यति मद्वरात्
एवमुक्त्वा तु सानन्दं कृत्वा कृष्णं स्ववक्षसि
कृत्वा वक्षसि तं कामाच्छ्लेषंश्लेषं चुचुम्ब च
नानाविचित्रचित्राढ्यं चित्रकाननशोभितम् 4.15.
चन्दनागुरुकस्तृरीकुङ्कुमद्रवयुक्तया
नानाभोगसमायुक्तं दिव्यदर्पणसंयुतम्
मणीन्द्रसाररचितकपाटेन समन्वितम् कुङ्कुमाकारमणिभिः सप्तसोपानसंयुतम्
युक्तं षट्पदसंयुक्तैः पुष्पोद्यानं च पुष्पितैः
ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम्
सुधामधुभ्यां पूर्णानि रत्नकुम्भानि नारद
कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम्
पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम्
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम् 4.15.
शरत्प्रफुल्लकमलप्रभामोचनलोचनम्
त्रिवंकचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम्
सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ
कामाच्चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा
पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा नवसंगमयोग्यां च पश्यन्तीं वक्रचक्षुषा
श्रीकृष्ण उवाच