वृष्टिधारामतिस्थूलां कम्पमानांश्च पादपान्
कथं यास्यामि गोवत्सान्विहाय स्वाश्रमं बत
एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा
एतस्मिन्नन्तरे राधाऽऽजगाम कृष्ण सन्निधिम्
शरत्पार्वणचन्द्राभामुष्टवक्त्रमनोहरा
परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला 4.15.
तन्मध्यस्थलशोभार्ह स्थूलमुक्ताफलोज्ज्वला
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला
मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला
कस्तूरीबिन्दुसंयुक्त सिन्दूरबिन्दुभूषिता
सुचारुवर्तुलाकारकपोलपुलकान्विता
सुचारुश्रीफलयुगकठिनस्तनसंगता
सुचारुवर्तुलाकारमुदरं सुमनोहरम्
सद्रत्नसाररचितमेखलाजालभूषिता
कठिनश्रोणियुगलं धरणीधरनिन्दितम्
रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् 4.15.
सद्रत्नसाररचितक्वणन्मञ्जीर रञ्जितम्
रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्वला
सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम्
दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ
ननाम तां साश्रुनेत्रो भक्तिनम्रात्मकन्धरः
जानामीमं महाविष्णोः परं निर्गुणमच्युतम्
गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम्
इत्युक्त्वा प्रददौ तस्यै रुदन्तं बालकं भिया
उवाच नन्दं सा यत्नान्न प्रकाश्यं रहस्यकम्
प्राज्ञस्त्वं गर्गवचनात्सर्वं जानासि कारणम् 4.15.
वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम्
राधिकावचनं श्रुत्वा तामुवाच व्रजेश्वरः
युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम्
श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी