किङ्किणीजालसंयुक्तां सिन्दूर बिन्दुसंयुताम्
वृक्षत्वं याहि पापिष्ठेत्युवाच मुनिपुंगवः 4.14.
जन्मेजयस्य सुभगा भविता कामिनीति च
श्रीकृष्ण स्पर्शमात्रेण पुनरायास्यसि गृहम्
इत्येवमुक्त्वा स मुनिर्जगाम निजमन्दिरम्। कुबेरतनयः श्रीमान्स जगाम निजालयम्
इत्येवं कथितं विप्र रम्भाख्यानं वदामि ते
कन्या लक्ष्मीस्वरूपा च बभूव सुन्दरी वरा
नानाकौतुकसंयुक्तां ददौ जन्मेजयाय च
स्थानेस्थाने निर्जने च राजा रेमे तया सह
अश्वसंगोपनं कृत्वा तस्थौ शक्रश्च मन्दिरे
द्रष्टुं जगाम सा साध्वी चाश्वमेकाकिनी मुदा
तया निवार्यमाणश्च रेमे तत्र तया सह 4.14.
सा च संभोगमात्रेण देहं तत्याज योगतः
राजा श्रुत्वा मृतां दृष्ट्वा विललाप भृशं मुहुः
रम्भा च मानवं देहं त्यक्त्वा स्वर्गं जगाम ह
नलकूबरमोक्षश्च रम्भायाश्च महामुने इत्येवं कथितं सर्वमपरं कथयामि ते
श्रीनारायण उवाच तत्रोपवनभाण्डीरे चारयामास गोधनम्
सरः सुस्वादुतोयं च पाययामास तत्पपौ
एतस्मिन्नन्तरे कृष्णो मायामानुषविग्रहः
मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम्
वृष्टिधारामतिस्थूलां कम्पमानांश्च पादपान्
कथं यास्यामि गोवत्सान्विहाय स्वाश्रमं बत
एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा
एतस्मिन्नन्तरे राधाऽऽजगाम कृष्ण सन्निधिम्
शरत्पार्वणचन्द्राभामुष्टवक्त्रमनोहरा
परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला 4.15.
तन्मध्यस्थलशोभार्ह स्थूलमुक्ताफलोज्ज्वला
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला
मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला
कस्तूरीबिन्दुसंयुक्त सिन्दूरबिन्दुभूषिता