यशोदा भ्रमणं कृत्वा विश्रान्ता घर्मसंयुता
विश्रान्तां मातरं दृष्ट्वा कृपालुः पुरुषोत्तमः ।।4.14.
करे धृत्वा च तं देवी समानीय स्वमालयम्
बद्ध्वा कृष्णं यशोदा सा जगाम स्वालयं प्रति
श्रीकृष्णस्पर्शमात्रेण सहसा तत्र नारद
सुवेषः पुरुषो दिव्यो वृक्षादाविर्बभूव ह
प्रणम्य जगतीनाथं शातकौम्भपरिच्छदम्
सा वृक्षपतनं दृष्ट्वा भिया त्रस्ता व्रजेश्वरी
आजग्मुर्गोकुलस्थाश्च गोपा गोप्यश्च तद्गृहम्
अत्यन्तस्थविरे काले तनयोऽयं बभूव ह
सुमतिर्नास्ति ते सत्यं ज्ञातं नन्दव्रजेश्वरि
पुत्रं बद्ध्वा गव्यहेतोर्वृक्षमूले च निष्ठुरे 4.14.
वृक्षस्य पतनाद्गोपी भाग्याद्बालोऽपि जीवितः
आशिषं युयुजुर्विप्रा बन्दिनश्च शुभावहाम्
एवं कृत्वा जनाः सर्वे प्रययुर्निजमन्दिरम्
नन्द उवाच अथवा त्वं गृहाद्गच्छ त्वया मे किं प्रयोजनम्
शतकूपाधिका वापी शतवापीसमं सरः
तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम्
पुत्रादपि परो बन्धुर्न भूतो न भविष्यति यशोदा रोहिणी चैव नियुक्ता गृहकर्मणि
नारद उवाच भगवन्हेतुना केन वृक्षत्वं समवाप ह
कुबेरतनयः श्रीमान्नाम्ना यो नलकूबरः
निर्जने सरसस्तीरे पुष्पोद्याने मनोहरे 4.14.
विधाय पुष्पशयने रत्नदीपैश्च दीपितम्
परितः पुष्पमाल्यैश्च क्षौमवस्त्रैश्च वेष्टितम्
शृङ्गाराष्टप्रकारं च विपरीतादिकं सुखम्
अङ्ग प्रत्यङ्गसंयोगत्रिविधाश्लेषणं मुदा
जलात्स्थले स्थलात्तोये कामशास्त्रविशारदः
नग्नां रम्भां मुक्तकेशीं पीनश्रोणिपयोधराम्
पश्यन्तीं प्राणनाथं च पश्यन्तं सस्मितं मुदा
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्