ततोऽधुना ब्रह्मपुत्रो वैष्णवोच्छिष्टभोजनात्
कथितं कृष्णचरितं नामान्नप्राशनादिकम्
एकदा नन्दपत्नी च स्नानार्थं यमुनां ययौ
दधिदुग्धाज्यतक्रं च नवनीतं मनोरमम्
मधु हैयङ्गवीनं यत्स्वस्तिकं शकटस्थितम्
ददर्श बालकं गोपी स्नात्वाऽऽगत्य स्वमन्दिरम्
दृष्ट्वा पप्रच्छ बालांश्च अहो कर्मेदमद्भुतम्
यशोदावचनं श्रुत्वा सर्वमूचुश्च बालकाः
बालानां वचनं श्रुत्वा चुकोप नन्दगेहिनी
पलायमानं गोविन्दं ग्रहीतुं न शशाक ह
यशोदा भ्रमणं कृत्वा विश्रान्ता घर्मसंयुता
विश्रान्तां मातरं दृष्ट्वा कृपालुः पुरुषोत्तमः ।।4.14.
करे धृत्वा च तं देवी समानीय स्वमालयम्
बद्ध्वा कृष्णं यशोदा सा जगाम स्वालयं प्रति
श्रीकृष्णस्पर्शमात्रेण सहसा तत्र नारद
सुवेषः पुरुषो दिव्यो वृक्षादाविर्बभूव ह
प्रणम्य जगतीनाथं शातकौम्भपरिच्छदम्
सा वृक्षपतनं दृष्ट्वा भिया त्रस्ता व्रजेश्वरी
आजग्मुर्गोकुलस्थाश्च गोपा गोप्यश्च तद्गृहम्
अत्यन्तस्थविरे काले तनयोऽयं बभूव ह
सुमतिर्नास्ति ते सत्यं ज्ञातं नन्दव्रजेश्वरि
पुत्रं बद्ध्वा गव्यहेतोर्वृक्षमूले च निष्ठुरे 4.14.
वृक्षस्य पतनाद्गोपी भाग्याद्बालोऽपि जीवितः
आशिषं युयुजुर्विप्रा बन्दिनश्च शुभावहाम्
एवं कृत्वा जनाः सर्वे प्रययुर्निजमन्दिरम्
नन्द उवाच अथवा त्वं गृहाद्गच्छ त्वया मे किं प्रयोजनम्
शतकूपाधिका वापी शतवापीसमं सरः
तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम्
पुत्रादपि परो बन्धुर्न भूतो न भविष्यति यशोदा रोहिणी चैव नियुक्ता गृहकर्मणि
नारद उवाच भगवन्हेतुना केन वृक्षत्वं समवाप ह