इदं गर्गकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः
जन्ममृत्युजरारोगशोकमोहादिसंकटात्
कृष्णस्य सहकालं च कृष्णसार्द्धं च मोदते
श्रीनारायण उवाच हरिं मुनिः स्तवं कृत्वा ददौ नन्दाय तं मुदा
अहो विचित्रं संसारो मोहजालेन वेष्टितः 4.13.
गर्गस्य वचनं श्रुत्वा रुरोद नन्द एव च
सर्वशिष्यैः परिवृतं मुनीन्द्रं गन्तुमुद्यतम्
प्रणेमुः परमप्रीत्या चक्रुस्तं विनयं मुने
ऋषयो मुनयश्चैव बन्धुवर्गाश्च बल्लवाः
प्रजग्मुर्बन्दिनः सर्वे परिपूर्णमनोरथाः
आकण्ठपूर्णा भुक्त्या च भिक्षुका गन्तुमक्षमा
सुमन्दगामिनः केचित्केचिद्भूमौ च शेरते
केचिदूषुः प्रमुदिता हसन्तस्तत्र केचन ।। कपर्दकानां वस्तूनां शेषांश्चोर्वरितान्बहून्
केचित्तानाददुः स्थित्वा दर्शयन्तश्च केचन
केचिद्बहुविधा गाथाः कथयन्तः पुरातनाः 4.13.
उत्तानपादनहुषनलादीनां च याः कथाः
येषांयेषां नृपाणां च श्रुता वृद्धमुखात्कथाः
स्थायंस्थायं गताः केचित्स्वापंस्वापं च केचन
हृष्टो नन्दो यशोदा च बालं कृत्वा च वक्षसि
एवं प्रवर्द्धितौ बालौ शुक्लचन्द्रकलोपमौ
शब्दार्द्धं वा तदर्द्धं वा क्षमौ वक्तुं दिनेदिने
बालो द्विपादं पादं वा गन्तुं शक्तो बभूव ह
वर्षाधिको हि वयसा कृष्णात्संकर्षणः स्वयम्
व्रजन्तौ गोकुले बालौ प्रहृष्टगमने क्षमौ
गर्गो जगाम मथुरां वसुदेवाश्रमं मुने 4.13.
मुनिस्तं कथयामास कुशलं सुमहोत्सवम्
देवकी परमप्रीत्या पप्रच्छ च पुनःपुनः
गर्गस्तावाशिषं दत्त्वा जगाम स्वालयं मुदा
श्रीनारायण उवाच पञ्चाशत्कामिनीनां च पतिर्गन्धर्वपुङ्गवः
तासां प्राणाधिकस्त्वं च शृङ्गारनिपुणो युवा