नानाविधानि स्वर्णानि धनानि विविधानि च
बन्दिभ्यो भिक्षुकेभ्यश्च सुवर्णं विपुलं ददौ
ब्राह्मणान्बन्धुवर्गांश्च भिक्षुकांश्च विशेषतः
दीयतां दीयतां चैव खाद्यतां खाद्यतामिति
रत्नानि परिपूर्णानि वासांसि भूषणानि च
चारूणि स्वर्णपात्राणि कृतानि विश्वकर्मणा
शिष्येभ्यः स्वर्णभाराणि प्रददौ विनयान्वितः 4.13.
श्रीनारायण उवाच तुष्टाव परया भक्त्या प्रणम्य च तमीश्वरम्
साश्रुनेत्रः सपुलको भक्तिनम्रात्मकन्धरः
गर्ग उवाच प्रसन्नो भव मामीश देहि दास्यं पदाम्बुजे
अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो
इन्द्रत्वे वा मनुत्वे वा स्वर्गलोकफले चिरम्
गोलोके वापि पाताले वासे नास्ति मनोरथः
त्वन्मन्त्रं शङ्करात्प्राप्य कतिजन्मफलोदयात्
कृपां कुरु कृपासिन्धो दीनबन्धो पदाम्बुजे ।। 4.13.
सर्वेषामीश्वरः सर्वस्त्वत्पादाम्भोजसेवया
ब्रह्मा विधाता जगतां त्वत्पादाम्भोजसेवया
त्वत्पादसेवया धर्मः साक्षी च सर्वकर्मणाम्
सहस्रवदनः शेषो यत्पादाम्बुजसेवया
सर्वसंपद्विधात्री या देवीनां च परात्परा
प्रकृतिर्बीजरूपा सा सर्वेषां शक्तिरूपिणी
पार्वती सर्वरूपा सा सर्वेषां बुद्धिरूपिणी
विद्याधिष्ठात्री देवी या ज्ञानमाता सरस्वती
सावित्री वेदजननी पुनाति भुवनत्रयम्
क्षमा जगद्विभर्तुं च रत्नगर्भा वसुन्धरा 4.13.
राधा ममांशसंभूता तव तुल्या च तेजसा
यथा शर्वादयो देवा देव्यः पद्मादयो यथा
न यास्यामि गृहं नाथ न गृह्णामि धनं तव
इति स्तुत्वा साश्रुनेत्रः पपात चरणे हरेः
गर्गस्य वचनं श्रुत्वा जहास भक्तवत्सलः