गुडकुल्यां तैलकुल्यां मधुकुल्यां च विस्तृताम्
शर्करोदककुल्यां च परिपूर्णां च लीलया
पृथुकानां शैलशतं लवणानां च सप्त च
परिपक्वफलानां च तत्र षोडशपर्वतान्
मोदकानां च शैलं च स्वस्तिकानां च पर्वतान्
कर्पूरादिकयुक्तानां तांबूलानां च मंदिरम्
चंदनागुरुकस्तूरीकंकुमेन समन्वितम्
मुक्ताफलानि रम्याणि प्रवालानि मुदाऽन्वितः 4.13.
पुत्रान्नप्राशने नन्दः कारयामास कौतुकात्
प्राङ्गणं कदलीस्तम्भै रसालनवपल्लवैः
युक्तं मङ्गलकुम्भैश्च फलपल्लवसंयुतैः
माल्यानां वरवस्त्राणां राशिभिश्च विराजितम्
फलानां जलकुम्भानां समूहैश्च समन्वितम्
ढक्कानां दुन्दुभीनां च पटहानां तथैव च
वंशीसन्नहनीकांस्यशरयन्त्रैश्च शब्दितम्
गंधर्वनायकानां च संगीतैर्मूर्च्छनायुतैः
एतस्मिन्नन्तरे नन्दमुवाच वाचको मुदा
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चेति सत्वरम् 4.13.
आगतो गिरिभानुश्च सस्त्रीकश्च सकिङ्करः
तुरङ्गमाणां कोटिश्च शिबिकानां तथैव च
बन्दिनां भिक्षुकाणां च समूहैश्च समीपतः
पश्यागत्य बहिर्भूयेत्युवाच प्राङ्गणे स्थितः
प्राङ्गणे वासयामास पूजयामास सत्वरम् पाद्यादिकं च तेभ्यश्च प्रददौ सुसमाहितः
वस्तुभिर्बन्धुभिः पूर्णं बभूव नन्दगोकुलम्
त्रिमुहूर्तं कुबेरश्च श्रीकृष्णप्रीतये मुदा
कौतुकापह्नवं चक्रुर्बन्धुवर्गाश्च क्रीडया
नन्दः कृताह्निकः पूतो धृत्वा धौते च वाससी
उवास पादौ प्रक्षाल्य स्वर्णपीठे मनोहरे 4.13.
गर्गवाक्यानुसारेण बालकस्य मुदाऽन्वितः
सघृतं भोजयित्वा च कृत्वा नाम जगत्पतेः