अक्रूराय ज्ञानदानं दर्शयित्वा स्वकं जले
मालाकारतंतुवायकुब्जानां बंधमोक्षणम्
हिंसनं गजमल्लानां दर्शनं नृपतेः पुरः
प्रबोधनं च युष्माकमुग्रसेनाभिषेचनम्
भ्रातुः स्वस्योपनयनं विद्यादानं गुरोर्मुखात्
छलनं नृपसैन्यानां यवनस्य दुरात्मनः
द्वारकागमनं चैव यादवैः सह कौतुकात्
सौभाग्यवर्धनं तासां पुत्रपौत्रादिकस्य च 4.13.
साहाय्यं पांडवानां च भारावतरणादिकम्
पारिजातस्य हरणं शक्राहंकारमर्दनम्
मर्दनं शिवसैन्यानां हरस्य जृंभणं परम्
वाराणस्याश्च दहनं विप्रदारिद्र्यभंजनम्
तीर्थयात्राप्रसंगेन युष्माभिः सह दर्शनम्
प्रस्थापयित्वा द्वारां च परं नारायणांशकम्
गमिष्यत्येव गोलोकं नाथोऽयं जगतां पतिः
धर्मगेहमृषी द्वौ च विष्णुः क्षीरोदमेव च
श्रूयतां सांप्रतं कर्म यदर्थं गमनं मम
गुरुवारे च रेवत्यां विशुद्धे चंद्रतारके 4.13.
वणिजे करणोत्कृष्टे शुभयोगे मनोहरे
आलोच्य पंडितैः सार्द्धं कुरु कर्म मुदाऽन्वितः
हृष्टो नंदो यशोदा च कर्मोद्योगं चकार ह
बालका बालिकाश्चैव आजग्मुर्नंदमंदिरम्
शिष्यसंघैः परिवृतं ज्वलंतं ब्रह्मतेजसा
पश्यंतं सस्मितं नंदभवनानां परिच्छदम्
भूतं भव्यं भविष्यं च पश्यंतं ज्ञानचक्षुषा
बहिर्यशोदाक्रोडस्थं तादृशं सस्मितं शिशुम्
तं दृष्ट्वा परमप्रीत्या पूर्णभूतमनोरथम्
हृदि पूजां प्रणामं च कुर्वंतं योगचर्यया 4.13.
आसनस्थो मुनिस्तस्थौ ते जग्मुः स्वालयं मुदा
प्रस्थापयामास शीघ्रमाराद्दूरस्थितान्मुदा