नारायणस्तामुवाच ब्रह्माणं नाभिपंकजे
पुरा कैलासशिखरे मामुवाच महेश्वरः
सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम्
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत्
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः
सर्वेप्सितं सदानंदं सर्वसिद्धौघमीश्वरम्
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् 4.13.
रोगशोकमृत्युयमा वेपंते नात्र संशयः
तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः
पुरोहितो जगद्धाता कृत्वाऽग्निं साक्षिणं मुदा
हिंसनं धेनुकस्यैव कानने तालभोजनम्
मोक्षणं द्विजपत्नीनां मिष्टान्नपानभोजनम्
गोपीनां वस्त्रहरणं व्रतसंपादनं तथा
चेतसां हरणं तासामयं वश्याः करिष्यति
पूर्णचन्द्रोदये नक्तं वसंते रासमंडले
ताभिः सह जलक्रीडां करिष्यति कुतूहलात्
गोपालैर्गोपिकाभिश्च भविता राधया सह 4.13.
पुनः प्रबोधनं तासां दानमाध्यात्मिकस्य च
रथमारोहणं कृत्वा मथुरागमनं पुनः
अक्रूराय ज्ञानदानं दर्शयित्वा स्वकं जले
मालाकारतंतुवायकुब्जानां बंधमोक्षणम्
हिंसनं गजमल्लानां दर्शनं नृपतेः पुरः
प्रबोधनं च युष्माकमुग्रसेनाभिषेचनम्
भ्रातुः स्वस्योपनयनं विद्यादानं गुरोर्मुखात्
छलनं नृपसैन्यानां यवनस्य दुरात्मनः
द्वारकागमनं चैव यादवैः सह कौतुकात्
सौभाग्यवर्धनं तासां पुत्रपौत्रादिकस्य च 4.13.
साहाय्यं पांडवानां च भारावतरणादिकम्
पारिजातस्य हरणं शक्राहंकारमर्दनम्