कृष्णस्यार्द्धांगसंभूता नाथस्य सदृशी सती
अयोनिसंभवा देवी मूलप्रकृतिरीश्वरी
वायुनिःसरणे काले धृत्वा च शिशुविग्रहम्
वर्धते सा व्रजे राधा शुक्ले चंद्रकला यथा
एका मूर्तिर्द्विधाभूता भेदो वेदे निरूपितः
द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च
पुरतो गमनेनैव किंतु सावयसाधिका
रचिता साऽस्य प्राणैश्च तत्प्राणैर्मूर्तिमानयम् 4.13.
स्वीकारं सार्थकं कर्तुं गोकुले यत्कृतं पुरा
प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः
नारायणस्तामुवाच ब्रह्माणं नाभिपंकजे
पुरा कैलासशिखरे मामुवाच महेश्वरः
सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम्
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत्
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः
सर्वेप्सितं सदानंदं सर्वसिद्धौघमीश्वरम्
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् 4.13.
रोगशोकमृत्युयमा वेपंते नात्र संशयः
तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः
पुरोहितो जगद्धाता कृत्वाऽग्निं साक्षिणं मुदा
हिंसनं धेनुकस्यैव कानने तालभोजनम्
मोक्षणं द्विजपत्नीनां मिष्टान्नपानभोजनम्
गोपीनां वस्त्रहरणं व्रतसंपादनं तथा
चेतसां हरणं तासामयं वश्याः करिष्यति
पूर्णचन्द्रोदये नक्तं वसंते रासमंडले
ताभिः सह जलक्रीडां करिष्यति कुतूहलात्
गोपालैर्गोपिकाभिश्च भविता राधया सह 4.13.
पुनः प्रबोधनं तासां दानमाध्यात्मिकस्य च
रथमारोहणं कृत्वा मथुरागमनं पुनः