नास्त्यंतोऽस्यैव वेदेषु तेनानंत इति स्मृतः
शितिवासा नीलवासान्मुसली मुसलायुधात्
रोहिणीगर्भवासात्तु रौहिणेयो महामतिः
यास्याम्यहं गृहं नंद सुखं तिष्ठ स्वमंदिरे
निश्चेष्टा नंदपत्नी च जहास बालकः स्वयम्
पुटांजलियुतो भूत्वा भक्तिनम्रात्मकंधरः गतश्चेत्त्वं तदा कर्म करिष्यत्येव को महान्
स्वयं शुभेक्षणं कृत्वा कुरु नाम्नाऽन्नप्राशनम्
तस्यापि का वा राधेति कन्यका कस्य च ध्रुवम् निगूढं परमं तत्त्वं रहस्यं कथयामि ते
पुरा गोलोकवृत्तांतं श्रुतं शंकरवक्त्रतः
श्रीदामशापाद्दैवेन गोपी राधा च गोकुले
कृष्णस्यार्द्धांगसंभूता नाथस्य सदृशी सती
अयोनिसंभवा देवी मूलप्रकृतिरीश्वरी
वायुनिःसरणे काले धृत्वा च शिशुविग्रहम्
वर्धते सा व्रजे राधा शुक्ले चंद्रकला यथा
एका मूर्तिर्द्विधाभूता भेदो वेदे निरूपितः
द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च
पुरतो गमनेनैव किंतु सावयसाधिका
रचिता साऽस्य प्राणैश्च तत्प्राणैर्मूर्तिमानयम् 4.13.
स्वीकारं सार्थकं कर्तुं गोकुले यत्कृतं पुरा
प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः
नारायणस्तामुवाच ब्रह्माणं नाभिपंकजे
पुरा कैलासशिखरे मामुवाच महेश्वरः
सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम्
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत्
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः
सर्वेप्सितं सदानंदं सर्वसिद्धौघमीश्वरम्
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् 4.13.
रोगशोकमृत्युयमा वेपंते नात्र संशयः
तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः