तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह
अयोनिसंभवश्चायमाविर्भूतो महीतले
आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह
शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः
त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः
शिवस्य वाचकः षश्च नकारो धर्मवाचकः
नरनारायणार्थस्य विसर्गो वाचकः स्मृतः
सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः 4.13.
अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः
तत्फलं लभते नूनं कृष्णेति स्मरणे नरः
कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात्
कृष्णेति सुंदरं नाम मंगलं भक्तिदायकम्
ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम्
तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः
ऋकारोक्तेर्न तिष्ठंति षकारात्पातकानि च
रथं गृहीत्वा धावंति गोलोकात्कृष्णकिंकराः 4.13.
नाम्नः प्रभावसंख्यानं संतो वक्तुं न च क्षमाः
गुणान्नामप्रभावं च किंचिज्जानाति मद्गुरुः
वेदाः संतो न जानंति महिम्नः षोडशीं कलाम्
यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम्
देवकीनंदनः श्रीशो यशोदानंदनो हरिः
सर्वाधारः सर्वगतिः सर्वकारणकारणम्
राधाप्राणो राधिकेशो राधिकारमणः स्वयम्
राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः
परिपूर्णतमं ब्रह्म गोविंदो गरुडध्वजः
जन्ममृत्युहराण्येव रक्ष नंद शुभेक्षण 4.13.
ज्येष्ठस्य हलिनो नाम्नः संकेतं शृणु मन्मुखात्