गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः
एतस्मिन्नन्तरे नंदः श्रुतमात्रं जगाम ह
शिष्यान्ननाम मूर्ध्ना च ते तं युयुजुराशिषम्
गृहीत्वाऽभ्यंतरं रम्यं जगाम विदुषां वरः वाक्यं गर्गस्तदोवाच निगूढं निर्जने मुने
श्रीगर्ग उवाच प्रस्थापितोऽहं वसुना येन तच्छ्रूयतामिति
वसुना सूतिकागारे शिशुः प्रत्यर्पणं कृतः
कन्या ते तेन या नीता मथुरां कंसभीरुणा गूढेन प्रेषितस्तेन तस्योद्योगं कुरु द्विज
पूर्णब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः
नारायणो यो वैकुंठे कमलाकांत एव च
कपिलोऽन्ये तदंशाश्च नरनारायणावृषी 4.13.
तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह
अयोनिसंभवश्चायमाविर्भूतो महीतले
आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह
शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः
त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः
शिवस्य वाचकः षश्च नकारो धर्मवाचकः
नरनारायणार्थस्य विसर्गो वाचकः स्मृतः
सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः 4.13.
अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः
तत्फलं लभते नूनं कृष्णेति स्मरणे नरः
कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात्
कृष्णेति सुंदरं नाम मंगलं भक्तिदायकम्
ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम्
तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः
ऋकारोक्तेर्न तिष्ठंति षकारात्पातकानि च
रथं गृहीत्वा धावंति गोलोकात्कृष्णकिंकराः 4.13.
नाम्नः प्रभावसंख्यानं संतो वक्तुं न च क्षमाः