येये श्रुताः श्रुतौ ब्रह्मञ्च्छ्रुतिसारा महाजनाः
शिष्या वेदा मूर्तिमंतो ग्रीष्म मध्याह्नभास्कराः
आशिषं कर्तुमर्हंति प्रसन्नमनसा शिशुम्
इत्येवमुक्त्वा नंदस्त्री भक्त्या तस्थौ मुनेः पुरः
यशोदावचनं श्रुत्वा जहास मुनिपुंगवः
हितं तथ्यं नीतियुक्तं महत्पुण्यकरं परम्
श्रीगर्ग उवाच सुधामयं ते वचनं लौकिकं च कुलोचितम्
सर्वेषां गोपपद्मानां गिरिभानुश्च भास्करः
तस्याः कन्या यशोदा त्वं यशोवर्द्धनकारिणी
नंदो यस्त्वं च या भद्रे बालो यो येन वा गतः 4.13.
गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः
एतस्मिन्नन्तरे नंदः श्रुतमात्रं जगाम ह
शिष्यान्ननाम मूर्ध्ना च ते तं युयुजुराशिषम्
गृहीत्वाऽभ्यंतरं रम्यं जगाम विदुषां वरः वाक्यं गर्गस्तदोवाच निगूढं निर्जने मुने
श्रीगर्ग उवाच प्रस्थापितोऽहं वसुना येन तच्छ्रूयतामिति
वसुना सूतिकागारे शिशुः प्रत्यर्पणं कृतः
कन्या ते तेन या नीता मथुरां कंसभीरुणा गूढेन प्रेषितस्तेन तस्योद्योगं कुरु द्विज
पूर्णब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः
नारायणो यो वैकुंठे कमलाकांत एव च
कपिलोऽन्ये तदंशाश्च नरनारायणावृषी 4.13.
तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह
अयोनिसंभवश्चायमाविर्भूतो महीतले
आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह
शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः
त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः
शिवस्य वाचकः षश्च नकारो धर्मवाचकः
नरनारायणार्थस्य विसर्गो वाचकः स्मृतः
सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः 4.13.