क्षुधि जाज्वल्यमानायामाहाराभाव एव च
तालबिल्वफलं भुक्त्वा जलपानं च तत्क्षणम्
तप्तोदकं च शिरसि भाद्रे तिक्तं विशेषतः 1.16.
सशर्करं च धान्याकं पिष्टं शीतोदकान्वितम्
बिल्वतालफलं पक्वं सर्वमैक्षवमेव च
पित्तक्षयकरं सद्यो बलपुष्टिप्रदं परम्
भोजनानन्तरं स्नानं जलपानं विना तृषा
पर्य्युषितान्नं च तक्रं च पक्वं रम्भाफलं दधि
नारिकेलोदकं रूक्षस्नानं पर्युषिते जले
खातस्नानं च वर्षासु मूलकं श्लेष्मकारकम्
वह्निस्वेदं भ्रष्टभङ्गं पक्वतैलविशेषकम्
पिण्डारकमपक्वं च रम्भा फलमपक्वकम्
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् 1.16.
द्रव्याण्येतानि गान्धर्वि सद्यः श्लेष्महराणि च
भोजनानन्तरं सद्यो गमनं धावनं तथा
वृद्धस्त्रीगमनं चैव मनःसन्ताप एव च
कटु वाक्यं भयं शोकः केवलं वायुकारणम्
पक्वं रम्भाफलं चैव सबीजं शर्करोदकम्
माहिषं दधि मिष्टं च केवलं वा सशर्करम्
पक्वतैलविशेषं च तिलतैलं च केवलम्
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम्
एतत्ते कथितं वत्से सद्योवायुप्रणाशनम्
व्याधिसंघश्च कथितस्तन्त्राणि विविधानि च 1.16.
तन्त्राण्येतानि सर्वाणि व्याधिक्षयकराणि च
न शक्तः कथितुं साध्वि यथार्थं वत्सरेण च
केन रोगेण त्वत्कान्तो मृतः कथय शोभने
सौतिरुवाच कथां कथितुमारेभे सा गान्धर्वी प्रहर्षिता
मालावत्युवाच सभायां लज्जितः कान्तो मम विप्र निशामय
सर्वं श्रुतमपूर्वं च शुभाख्यानं मनोहरम्
अधुना मत्प्राणकान्तं देहि देहि विचक्षण